________________
उपोद्घाते
॥ २५ ॥
| भ्रस्फटिकैर्व्यवहितस्याप्युपलब्धेः, अथेदमाचक्षीथाः - नायना रश्मयो निर्गत्य तमर्थ गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वान्नं तेजोद्रव्यैः प्रतिस्खल्यन्ते, ततो न कश्चिद्दोषः, तदपि न मनोरमं महाज्वालादौ प्रतिस्खलनोपलब्धेः तस्मादप्राप्यकारित्वं चक्षुषः । एवं मनसोऽप्यप्राप्यकारित्वं भावनीयं तत्रापि विषयकृतानुग्रहोपघाताभावात्, अन्यथा तोयादिचिन्तायामनु| ग्रहोऽग्निशस्त्रादिचिन्तायां चोपघातो भवेत्, ननु दृश्यतेऽप्यनुग्रहो हर्षादिभिः शरीरोपचयदर्शनात्, तथाहि - हर्ष - | प्रकर्षवशान्मनसोऽतिपुष्टता, तद्वशाच्च शरीरोपचयः, उपघातोऽपि च दृश्यते, शरीरदौर्बल्यदर्शनात्, तथा हि-अतिशोककरणतो मनसो विघातसम्भवस्तद्वशाच्च शरीरस्य दौर्बल्यं, चिन्तावशाच्च हृद्रोग इति, तदेतदतीवासंबद्धं, यत इह मनसोऽप्यप्राप्यकारित्वं साध्यमानं वर्त्तते, विषयकृतानुग्रहोपघाताभावादिति हेतोः, न चेह विषयकृतावनुग्रहोपघाती त्वया मनसो दश्येते तत्कथं व्यभिचारः १, मनस्तु स्वयं पुद्गलमयत्वात् शरीरस्यानुग्रहोपघातौ करिष्यति, यथेष्टानिष्टरूप आहारः, तथाहि इष्टरूप आहारः परिभुज्यमानः शरीरस्य पोषमाधत्ते अनिष्टरूपस्तूपघातं तथा मनोऽप्यनिष्टपुद्गलोपचितमति| शोकादिनिबन्धनं शरीरस्य हानिप्रादधाति, इष्टपुद्गलोपचितं च हर्षादिकारणं पुष्टिं, "इट्ठाणिट्ठाहारम्भवहारे होंति पुट्ठिहाणीतो । जह तह मणसो ताओ पोग्गलगणतोत्ति को दोसो १, ॥१॥” (वि०२२१) तस्मान्मनोऽपि विषयकृतानुग्रहोपघाताभावादप्राप्यकारीति चतुर्धा व्यञ्जनावग्रहः । तथा व्यञ्जनावग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽर्थावग्रहः, | सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमर्थावग्रह इति भावः, 'तथे' त्यानन्तर्ये विचारणं - पर्यालोचनमर्थानामित्यनुवर्त्तते, ईहनमीहा, तां हुवते इति योगः, किमुक्तं भवति १- अवग्रहावुत्तीर्णोऽपायात्पूर्वः सद्भूतार्थविशेषोपादानाभिमुखोऽसनू
Jain Education International
For Private & Personal Use Only
मनसोs•
प्राप्यकारिता
|| 24 ||
www.jainelibrary.org