SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आ. सू. ५ Jain Education Inte ध्यनुपलब्ध्योरनावरणेतरापेक्षणात् दूरेतरापेक्षणाच्च, बदि हिं चक्षुरप्राप्यकारि भवेत् तदा आवरणभावादनुपलन्धि| रम्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातकरणसमर्थ, प्राप्यकारित्वे तु मूर्त्तद्रव्यप्रतिघातादुपपत्तिमान् तथा व्याघातः, अतिदूरे च गमनाभावादिति, प्रयोगश्चात्र न चक्षुषो विषयपरिमाणमप्राप्यकारित्वात् मनोवत्, तदेतदयुकतरं दृष्टान्तस्य साध्य विकलत्वात्, न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्श नात्, ततो यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशम सापेक्षत्वान्नियत विषर्यं तथा चक्षुरपि स्वावरणक्षयोपशम सापेक्षत्वात् योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति, अपिच-दृष्टमप्रा |प्यकारित्वेऽपि तथास्वभावविशेषात् योग्यदेशापेक्षणं, यथा अयस्कान्तस्य, न खल्वयस्कान्तोऽयसोऽप्राप्य कर्षणे प्रवर्त्तमानः सर्वस्याप्ययसो जगद्वर्त्तिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, अथ मन्येथा अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः समाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणवः सूक्ष्मत्वान्नोपलभ्यन्ते, तदेतदुन्मत्तप्रलपितं, तदूग्राहकप्रमाणाभावात्, न हि तत्र छायाणुसम्भवग्राहकं प्रमाणमस्ति न चाप्रमाणकं प्रतिपत्तुं शक्नुमः, अथास्ति तदूग्राहकं प्रमाणमनुमानं, इह यदाकर्षणं तत्संसर्गपूर्वकं यथाऽयोगोलकस्य संदशेन, आकर्षणं चायसोऽयस्कान्तेन, तत्र | साक्षादयस्कान्तेन संसर्गः प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदेतद्वालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मन्त्रेण व्यभिचारात्, तथाहि मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वाकर्षति, नच तत्र कोऽपि संसर्ग इति ॥ अन्यस्त्वाह-अस्ति चक्षुषः प्राप्यकारित्वेऽव्यवहितार्थानुपलब्धिरनुमानं, तदप्ययुक्तं, अत्रापि हेतोरने क्रान्तिकत्वात्, काचा For Private & Personal Use Only w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy