SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उपोद्घाते ॥ २४ ॥ Jain Education Inter न्दत्तत्कृतानुग्रहोपघातभाग् भवति, तथा चक्षुर्मनसी अपि भवेतां, न च भवतस्तस्मादप्राप्यकारिणी ते इति, ननु दृश्येते चक्षुषोऽनुग्रहोपघातौ, तथाहि-जरठकरप्रसरमभिसर्पयन्तमंशुमालिनं चिरं विलोकमानस्य भवति चक्षुषो विघातः, शशाङ्ककरनिकरं तरङ्गमा लोपशोभितं जलं शाङ्खलतरुमण्डलं वाऽवलोकमानस्यानुग्रहः, तदेतज्जाड्यविलसितं यतो न वयं ब्रूमः सर्वथा चक्षुषोऽनुग्रहोपघातौ न भवतः, किन्तु विषयमप्राप्तं चक्षुर्गृह्णातीत्येवाभिदध्महे, विषयकृतानुग्रहोपघातासम्भवेऽपि तत्परिच्छेदभावात् प्राप्तेन तूपघातकेनोपघातो भविष्यत्यनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपाददते, नात्र विसंवादः, ततस्ते चक्षुः सम्प्राप्ताः सन्तः स्पर्शनेन्द्रियमिव चक्षुरप्युपघ्नन्ति, शीतांशुरश्मयस्तु स्वभावत एव शीतलत्वादनुग्राहकाः ततस्ते चक्षुरनुगृह्णन्ति, तरङ्गमालासङ्कुलजलावलोकेन च जलकणसम्पृक्तसमीरणावयवसंस्पर्शतोऽनुग्रहः, शाडुलतरुमण्डलावलोकनेऽपि शाडुलतरुच्छाय । सम्पर्कशीतीभूतसमी र संस्पर्शात्, शेषकालं तु जलाद्यवलो - कनेऽनुग्रहाभिमान उपघाताभावादवसेयः, भवति चोपघाताभावेऽनुग्रहाभिमानो, यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्त्य यथासुखं नीली रक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा सम्पर्के यथा सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादयोऽपि कस्मान्न भवन्ति !, अपिच-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतं रजोमलाञ्जनादि किं न पश्यति ?, तस्मादप्राप्यकार्येव चक्षुः ननु यदि चक्षुरप्राप्यकारि तर्हि कस्मादविशेषेण सर्वानप्यर्थान् न | गृह्णाति, यदि हि प्राप्तं परिच्छिन्द्यात् तर्हि यदेवानावृत मदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशस्थं वा, तत्र नयनरश्मीनां गममासम्भवात् सम्पर्काभावात् ततो युज्येत चक्षुषो ग्रहणाग्रहणे नान्यथा, तथा चोकम् - " प्राप्यकारि चक्षुः उपल For Private & Personal Use Only चक्षुषोऽ प्राप्यकारिता ॥ २४ ॥ ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy