________________
ज्ञानमात्रा न भवेत् ततो द्वितीयेऽपि समये न भवेत्, विशेषाभावात्, एवं यावचरमसमयेऽपि, अथ घरमसमये ज्ञानमर्थावग्रहरूपं जायमानमुपलभ्यते ततः प्रागपि कापि कियती मात्रा प्रतिपत्तव्या, अथ मन्येथा मा भूत प्रथमसमयाबियु सदादिपरिणतद्रव्याभिसम्बन्धेऽपि काचिदपि ज्ञानमात्रा शब्दादिपरिणतद्रव्याणां तत्र स्तोकत्वात् चरमसमये तु भविष्यति शब्दादिपरिणतन्यसमूहस्य भूयसो भावात्, तदप्ययुक्वं, यतो यदि प्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकत्वात् सम्पृक्तौ नाव्यक्ताऽपि काचिदपि ज्ञानमात्रोपजायते ततः प्रभूतसमुदायसम्पर्केऽपि न भवेत् , न खलु सिकताकणादिषु प्रत्येकमसति तैललेशे समुदाये तैलमुद्भवदुपलभ्यते, अस्ति च चरमसमये प्रभूतशब्दादिसम्पर्के ज्ञान, ततः प्राकनेष्वपि समयेषु स्तोकस्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे काचिदव्यक्ता ज्ञानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपि न स्यात्, उक्तं च-"जं सबहा न वीसुं सबेसुवि तं न रेणु तेल्लं व । पत्तेयमणिच्छंतो कहमिच्छसि समुदये नाणं ? ॥१॥" (वि. २०१) ततः स्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूपः, केवलं च तत् ज्ञानमव्यकमवसातव्यं, स च चतुर्विधस्तद्यथा-श्रोत्रेन्द्रियव्यञ्जनावग्रहः प्राणेन्द्रियव्यञ्जनावग्रहः जिह्वेन्द्रियव्यञ्जनावग्रहः स्पर्शनेन्द्रियव्यञ्जनावग्रहश्च, ननु सत्सु पञ्चस्विन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधः १, उच्यते, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां परस्परं सम्बन्ध उच्यते, सम्बन्धश्च चतुर्णा मेव श्रोत्रेन्द्रि. यादीनां, न नयनमनसोः, तयोरप्राप्यकारित्वात, कथमप्राप्यकारितेति चेत्, उच्यते, विषयकृतानुग्रहोपघाताभावात् , यदि पुनः प्राप्तमर्थ चक्षुर्मनो वा गृह्णीयात् तर्हि यथा स्पर्शनेन्द्रियं सकूचन्दनादिकमङ्गारादिकं वा प्राप्तमर्थ परिच्छि-18
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org