________________
उपोद्धा
॥ २३ ॥
साम्प्रतमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपं प्रतिपिपादयिषुरिदमाह---
"अत्थाणं उग्गहणं अवग्गहं तह विआलणं इहं । ववसायं च अवायं धरणं पुणधारणं बेंति ॥ ३ ॥ अर्थ्यन्ते गम्यंते परिच्छिद्यन्ते इतियावत् अर्थाः "कमिप्रगार्त्तिभ्यस्थ" इत्यौणादिकः थप्रत्ययः, ते च रूपादयः, तेषामर्थानां प्रथमं ग्रहणमवग्रहणमवग्रहं ब्रुवते इति योगः, स च द्विधा - व्यञ्जनावग्रहोऽर्थावग्रहश्च तत्र व्यञ्जनावग्रहपूर्वकोऽर्थावग्रह इति प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यते, अथ व्यञ्जनावग्रह इति कः शब्दार्थः १, उच्यते, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्चोपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्परं सम्बन्धः, संपृक्तिरित्यर्थः, सम्बन्धे हि सति सोऽर्थः श्रोत्रादीन्द्रियेण व्यक्तुं शक्यते नान्यथा, ततः सम्बन्धो व्यञ्जनं, तथा चाह भाष्यकृत् -"वंजिजइ जेणऽत्थो घडोब दीवेण वंजणं तं च । उवगरणिंदियस छ । इपरिणय द्दबसंबंधो ॥१॥ (वि. १९४) व्यञ्जनेन - सम्बन्धेनावग्रहणं - सम्बध्यमानस्य शब्दादि| रूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यञ्जनानि, 'कृद्बहुलमिति वचनात् कर्मण्यनद्र, व्यञ्जनानां शब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः - अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं-उपकरणेन्द्रियं तेन स्वसम्बद्धस्यार्थस्य शब्दादेरवग्रहणं - अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, स चान्तर्मुहूर्त्तप्रमाणः, आह-ननु व्यञ्जनावग्रहवेलायां न किमपि संवेदनं संवेदयामहे, तत्कथमसो ज्ञानरूपो गीयते ?, उच्यते, अव्यक्तत्वान्न संवेद्यते ततो न कश्चिद्दोषः, अस्तित्वे किं प्रमाणमिति चेत्, उच्यते, अनुमानं तथाहि यदि प्रथमसमयेऽपि शब्दादिपरिणतद्रव्याणामुपकरणेन्द्रियस्य च परस्परसम्पृत्तौ काचिदपि
Jain Education International
For Private & Personal Use Only
अवग्रहादि स्वरूपम् गा. ३
॥ २३ ॥
www.jainelibrary.org