________________
445CAAAACCAMERICANCER-14
आह च भाष्यकृत्-"भूयाभूयविसेसादाणच्चायाभिमुहमीहा।' (वि.१८४) अन्ये तु संशयमात्रमीहामुपवर्णयन्ति, तदसम्यक्, संशयो ह्यज्ञानं, मतिज्ञानांशश्च ईहा, तत्कथमेषा संशयमानं भवितुमर्हति ? उक्तं च-"ईहा संसयमेत्तं केई न तयं तओ जमन्नाणं । मईनाणंसो चेहा कहमन्नाणं तई जुत्तं?॥२॥"(वि.१८२) तथा तस्यैव अवगृहीतस्य ईहितस्य चार्थस्य निर्णयरूपोऽध्यवसायोऽवायः,शाङ्क एवायं शार्ङ्ग एवायमित्यादिरूपोऽवधारणात्मकः प्रत्ययोऽवाय इति भावः,चशब्दः पृथकअवग्रहादिस्वरूपस्वातन्यप्रदर्शनार्थः,अवग्रहादीनामीहादयः पर्यायान भवन्तीति तदर्थख्यापनार्थ इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा-अविच्युतिर्वासना स्मृतिश्च, तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा, ततस्तया आहितो यः संस्कारः स वासना, सा च सयेयमसङ्ख्येयं वा कालं यावद् भवति, सङ्कायेयवर्षायुषां सङ्खयेयं कालमसङ्ख्येयवायुषामसङ्ख्येयं कालमिति भावार्थः, ततः कालान्तरे कुतश्चित्तादृशार्थदर्शनादिकात् कारणात् संस्कारस्य प्रवोधे यद् ज्ञानमुदयते तदेवेदं यन्मया प्रागुपलब्धमित्यादिरूपा सा स्मृतिः, उक्तंच-"तदनन्तरं तदत्वाविच्चवणं जो उ वासणाजोगो । कालन्तरेण जो पुणरणुसरणं धारणा साउ ॥१॥"(वि.२९१)एताश्चाविच्युतिवासनास्मृतयो धरणलक्षणसामान्यान्वर्थयोगाद्धारणाशब्दवाच्याः, एवंशब्दः क्रमप्रदर्शनार्थः, आपत्वाच्च मकारलोपः, एवं-अनेनैव क्रमेण, तथाहि-नानवगृहीतमीह्यते न चानीहितमवगम्यते न चानवगतं धार्यत इति, चत्वारि आभिनिबोधिकज्ञानस्य भिद्यन्त इति भेदाः विकल्पा अंशा इत्यनान्तरं । त एव वस्तूनि भेदवस्तूनि, वास्तवा भेदा इति भावः, समासेन-सड़ेपेण, नतु विस्तरतः, बिस्तरतोऽष्टाविंशत्यादिभेदभावात्, अथवा काका नीयते-एवं भवन्ति चत्वार्याभिनिवोधिकज्ञानस्य भेदवस्तूनि?, समासेन, न तु विस्तरत इति ।
in Education in
For Private & Personal Use Only
A
jainelibrary.org