________________
20-20%A9-%
उपोद्धाते
इति न्यायात् ज्ञानपञ्चकादावुद्दिष्टस्याभिनिबोधिकज्ञानस्य स्वरूपममिधीयते, तच्चाभिनिवोधिकज्ञानं द्विधा-श्रुतनिश्नि-18/ मतिभेदः
तमश्रुतनिश्रितं च, तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपयोलोचनमनपेक्ष्येव यदुपजायते तत श्रतनिश्रितम॥२२॥10 अवग्रहादि, यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शि मतिज्ञानमु
पजायते तदश्रतनिश्रितम्-औत्पत्तिक्यादि, आह भाष्यकृत्-"पुर्व सुयपरिकम्मियमइस्स जं संपयं सुयातीतं । तन्निस्सियमियरं पण अणिस्सियं मइचउक्कं तं ॥१॥"(वि.१६९) नन्वौत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव ततः कोऽनयो प्रतिविशेषः १, उच्यते, तदप्यवग्रहादिरूपमेव, केवलं शास्त्रानुसारमन्तरेणोपजायत इति भेदेनोपन्यस्तं, ननु 'तिवग्गसुत्तत्थगहियपेयाला' इति वचनात् तत्रापि किश्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति !, सत्यमेतत, वैनयिकी विहाय अश्रतनिश्रितं प्रतिपत्तव्यं, यस्तु वैनयिक्या अश्रुतनिश्रितेषु नन्द्यध्ययने निर्युक्तौ वा पाठः स बुद्धिसाम्यादिति कृतं प्रसङ्गेन ॥ तत्र श्रुतनिश्रिताभिनिबोधिकज्ञानस्वरूपप्रदर्शनार्थमाह- "उग्गहो ईह अवातो य धारणा एव होति चत्तारि । आभिणिबोहियनाणस्स भेयवत्थ समासेणं ॥२॥"
अवग्रहणमवग्रहः, अनिर्देश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, यदाह नन्द्यध्ययनचूर्णिकृत्-"सामन्नस्स रूवादिविसेसणरहियस्स अनिद्देस्सस्स अवग्गहणमवग्गह" इति, तथा ईहनमीहा-सद्भूतार्थपर्यालोचनरूपा चेष्टाईहि चेष्टाया'मिति वच
॥१२॥ नात्, किमुक्तं भवति?-अवग्रहादुत्तरकालमपायात् पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्मा दृश्यन्ते न खरकर्कशनिष्ठुरतादयः शाादिशब्दधर्मा इत्येवंरूपो मतिविशेष ईहा,
AACARACHARGALACE
%
%
ॐ-%
Jain Education International
For Private & Personal use only
www.jainelibrary.org