SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कादिन्यस्ताक्षर रूपां द्रव्यश्रुतविषर्या शब्दार्थ पर्यालोचनात्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतज्ञानरूपत्वात्, यश्च द्रव्यश्रुत| व्यतिरेकेणान्योऽपि शेषेन्द्रियेष्वक्षरलाभः शब्दार्थ पर्यालोचनात्मकः सोऽपि श्रुतं, न तु केवलोऽक्षरलाभः केवलो ह्यक्षर| लाभो मतावपि ईहादिरूपायां भवति, न च सा श्रुतज्ञानं, अत्राह - ननु यदि शेषेन्द्रियेष्वक्षरलाभः श्रुतं तर्हि यवधारण| मुक्तं 'श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुत' मिति तद्विघटते, शेषेन्द्रियोपलब्धेरपि सम्प्रति श्रुतत्वेन प्रतिपन्नत्वात्, नैष दोषः, यतः शेषेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थ पर्यालोचनात्मकः, शब्दार्थ पर्यालोचनानुसारी चाक्षरलाभः श्रोत्रेन्द्रियोपलब्धिरूप इति न कश्चिद्दोष इति । तथा वल्कसमं मतिज्ञानं, कारणत्वात्, शुम्बसमं श्रुतज्ञानं, तत्कार्यत्वात्, ततो यथा वल्कशुम्बयोर्भेदः तथा मतिश्रुतयोरपि । इतश्च भेदो - मतिज्ञानमनक्षरं साक्षरं च, तथाहि - अवग्रहज्ञानमनक्षरं तस्या| निर्देश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वात्, ईहादिज्ञानं तु साक्षरं तस्य परामर्शादिरूपतयाऽवश्यं वर्णारूषितत्वात् श्रुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण शब्दार्थ पर्यालोचनाऽयोगात् । इतश्च मतिश्रुतयोर्भेदो मूककल्पं मतिज्ञानं, स्वमात्रप्रत्यायनफलत्वात्, अमूककल्पं श्रुतज्ञानं, स्वपरप्रत्यायकत्वादिति ॥ मतिश्रुतानन्तरं च कालविपर्यय: दि. | साधर्म्यादवधिज्ञानस्योपन्यासः, तदनन्तरं च छद्मस्थविषयभावादिसाधर्म्यान्मनः पर्यवज्ञानस्योपन्यासः, तदनन्तरं च भावमुनिस्वाम्यादिसाधर्म्यात् सर्वोत्तमत्वाच्च केवलज्ञानस्य, उक्तं च- "मइपुखं जेण सुयं तेणादीए मई विसिट्ठो वा । मइभेदो वेव सुअं तो मइसमणंतरं भणियं ॥ १ ॥ कालविवज्जयसामित्तलाभसाहम्मतोऽवही तत्तो । माणसमित्तो छउमत्थ| विसयभावाइसाहम्मा ||२|| अंते केवलमुत्तममुणिसामित्तावसाणला भातो” इति (वि.८६-८७ ) सम्प्रति यथोद्देशं निर्देश' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy