SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ य गते प्रतिभाति न शेषः, एतच्च प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं, ततो यथोत्पन्नोऽपि घटो मृदभावे न भवति तथास्वभावायां चि मृदि स्थितायामवतिष्ठत इति सा तस्य कारणं, एवं श्रुतस्यापि मतिः कारणं, मतेरुत्पद्यमानत्वात् , मतो वाऽवस्थितायां तस्याप्यवस्थानात् । तथा च भेदानेदः, तथाहि-चतुर्दाव्यञ्जनावग्रहषोढार्थावग्रहेहापायधारणाभेदादष्टाविंशतिविधमाभिनिबोधिकं ज्ञानं, अङ्गप्रविष्टानङ्गप्रविष्टादिभिन्नं च श्रुतज्ञानमिति, तथा इन्द्रियविभागाद्भेदः, तत्प्रतिपादिका चेयं पूर्वान्तगता गाथा-"सोइंदियोवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दवसुयं अक्खरलंभो य सेसेसु ॥१॥" अस्या व्याख्या-श्रोत्रेन्द्रियेणोपलब्धिः श्रोनेन्द्रियोपलब्धिर्भवति श्रुतं, 'सर्व वाक्यं सावधारणमिष्टितश्चावधारणप्रवृत्तिरित्येवमिहावधारणं प्रतिपत्तव्य-श्रुतं श्नोत्रेन्द्रियोपलब्धिरेव, नतु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव, कस्मादिति चेत्, उच्यते, इह या श्रोत्रेन्द्रियोपलब्धिरपि श्रुतग्रन्थानुसारिणी सैव श्रुतमुच्यते, या पुनरवग्रहेहापायरूपा सा मतिः, ततो यदि श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेत्युच्येत तर्हि मतेरपि श्रुतत्वमापद्येत, तच्चायुक्तं, अतः श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमित्यवधारणीयं, आह च भाष्यकृत्-"सोइंदिओवलद्धी चेव सुयं न उतई सुयं चेव । सोइंदियउवलद्धीवि काई जम्हा मईनाणं ॥१॥(वि.१२२) तथा 'सेसर्य तु मइनाणं" इति, शेषं यच्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानं भवतीति सम्बध्यते, तुशब्दोऽनुक्तसमुच्चयार्थः, आस्तां शेष विज्ञानं श्रोत्रेन्द्रियोपलब्धिरपिः काचिद् अवग्रहेहापायरूपा मतिज्ञानमिति समुच्चिनोतीति भावः, उक्तं च-"तु समुच्चयवयणातोकाई सोइंदिओवलद्धीवि । मई एवं सइ सोउग्गहादओं होति मइभेया ॥१॥" (वि. १२३) तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेरुत्सर्गेण मतित्वे प्रावे अपवादमाह-'मोत्तूर्ण दबसुयं मुक्त्वा द्रव्यश्श्रुतं-पुस्तकपत्र ALSO REACTIONS 464646- 04 ॥११॥ Jain Education in For Private & Personal Use Only MOTww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy