SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ o rmaCK*** । एवम्-उक्तेन प्रकारेण तपोगुणेषु रतस्तपोगुणरतः आनुपू]ण-क्रमेण मुनिर्विहरन् घोरा-रौद्रां परीपहच-परिपहसेनामधिसह्य महावीरः॥ उप्पन्नंमि अणते नट्टम्मि अछाउमथिए नाणे । राईए संपत्तो महसेणवणम्मि उजाणे ॥५३८॥ उत्पन्ने-प्रादुर्भूते अनन्ते-अनन्तज्ञेयविषये, कस्मिन् ?-ज्ञाने-केवलज्ञाने, नष्टे च छानस्थिके मत्यादिरूपे ज्ञाने, देशज्ञानव्यवच्छेदेन केवलज्ञानसद्भावाद्, भावितं चैतत् प्रथमपीठिकायां, रात्रौ सम्प्राप्तो महसेनवने उद्याने, किमिति चेत् उच्यते,भगवतो ज्ञानरत्नोत्पतिसमनन्तरमेव देवाश्चतुर्विधा अप्यागता आसन् , अत्यद्भुतां च प्रहर्षवन्तों ज्ञानोत्पादमहिमां चक्रुः, तत्र भगवान् अववुध्यते-नात्र कश्चित्प्रव्रज्याप्रतिपत्ता विद्यते, तत एतद्विज्ञाय न विशिष्टधर्मकथनाय प्रवृत्तवान्, केवलं कल्प एषः-यत्र ज्ञानमुत्पद्यते तत्र जघन्यतोऽपि मुहूर्त्तमात्रमवस्थातव्यं देवकृता. च पूजा प्रतीच्छ नीया धर्मदेशना |च कर्त्तव्येति सङ्केपतो धर्मदेशनां कृत्वा द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलाख्यो नाम ब्राह्मणः, स यज्ञं यष्टुमभ्युद्यतः, तत्र चैकादशोपाध्यायाः खल्वागताः, ते च चरमशरीरा भवान्तरोपार्जितगणधरलब्धयश्च, तान् | विज्ञायासङ्ख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेन दिवस इवाशेषं पन्थानमुद्योतयन देवपरिकल्पितेषु सहस्रपत्रेषु नवनीतस्पर्शेषु पयेषु चरणग्यासं विदधानो मध्यमनगाँ महसेनवनोद्यानं सम्प्राप्तः॥ अमरनररायमहिओ पत्तो वरधम्मचक्कवटित्तं । बीपि समोसरणं पावाए मज्झिमाए उ ॥५३९॥ अमरा-देवाः नरा-मनुष्याः तेषां राजानस्तैमहितः-पूजितः प्राधो धर्मवरचक्रवर्तित्व-धर्मवरप्रभुत्वं, द्वितीयं पुनः Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy