________________
उपोदाते
॥ २०॥
SANGA
येन परिणामविशेषेणावबुध्यते स परिणामविशेषों ज्ञानापरपर्यायः आभिनिबोधिक, तथा शृणोति-वाच्यवाचकभाव-10
नावाच्यतापकमाव- ज्ञानक्रमपुरस्सरं श्रवणविषयेण शब्देन सह संसृष्टमर्थ परिच्छिनत्ति येन परिणामविशेषेणात्मा स परिणामविशेषःश्रुतं, भयंच
सिद्धि लक्षणभेदो नन्द्यध्ययने साक्षादभिहितः, तथा च तत्सूत्रम्-"जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं जस्थ सुअनाणं तत्थ आभिणिबोहियनाणं, दोऽवि एयाई, अन्नुन्नमणुगयाई तहवि पुण एत्थ आयरिया णाणतं पण्णवेंति, अभिणिबुज्झइत्ति आभिणिवोहियं, सुणेईइ सुय"मिति । ननु यद्येवलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान तथा भाषालन्धिमान वा तस्यैव श्रुतमुपपद्यते, न शेषस्यैकेन्द्रियस्य, तथाहि-यः श्रोत्रेन्द्रियलब्धिमान् भवति स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थ प्रतिपत्तुमीष्टे, न शेषः, शेषस्य तथारूपशक्त्यभावात् , योऽपि च भाषालब्धिमान् भवति द्वीन्द्रियादिरपि सोऽपि प्रायः स्वचेतसि किमपि विकल्प्य तदभिमानतः शब्दमुगिरति, नान्यथा, ततस्तस्यापि श्रुतं सम्भाव्यते, यस्त्वेकेन्द्रियः स न श्रोत्रेन्द्रियलब्धिमान् नापि भाषालब्धिमान, ततः कथं तस्य श्रुतमुपपद्यते', अथ च प्रवचने तस्यापि श्रुतमुपवय॑ते, ततः कथं प्रागुक्तं श्रुतलक्षणं सम्यगिति !, नैष दोषः, इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यन्ते, तथा सूत्रेऽनेकशोऽभिधानात् , संज्ञा चाभिलाष उच्यते, यदुक्तमस्यैवावश्यकस्य मूलटीकायां-"आहारसंज्ञाआहारामिलापः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेष' इति, अभिलापश्च ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवा- ॥२०॥ प्यते ततः समीचीनं भवतीत्येवंशब्दार्थोल्लेखानुविद्धः वपुष्टिनिमित्तप्रतिनियतवस्तुप्राप्यध्यवसायः, स च श्रुतमेव, तस्य शब्दार्थपर्यालोचनात्मकत्वात् , शब्दार्थपर्यालोचनात्मकता च ममैवरूपं वस्तु पुष्टिकारि तादीदमवाप्यते, इत्येव
ॐॐॐॐॐ
.
COM
Jain Education to
For Private & Personal use only
I
NMw.jainelibrary.org