________________
| भेदानामित्थमुपन्यासे किश्चिदस्ति प्रयोजनमुत यथाकथचिदेष प्रवृत्तः ?, अस्तीति ब्रूमः, किं तदिति चेत्, उच्यतें, इह मतिश्रुते वदेकत्र वक्तव्ये, परस्परमनयोः स्वामिकाल कारणविषयपरोक्षत्वसाधर्म्यात्, तच प्रागेव भावितं, अवध्यादिज्ञानेभ्यश्च प्राक्, तद्भाव एवावध्यादिज्ञानसद्भावात् उक्तं च-"जं सामिकालकारणविसयपरोक्खचणेहिं तुल्लाई । | तब्भावे सेसाणि य तेणाईए मइस्य ई ॥ १ ॥ " (वि.८५) तत्रापि पूर्व मतिज्ञानं पश्चात् श्रुतज्ञानं, मतिपूर्वकत्वात् श्रुत| ज्ञानस्य, तथाहि सर्वत्रापि पूर्वग्रहादिरूपं मतिज्ञानमुदयते पश्चात् श्रुतज्ञानं, आह च नन्द्यध्ययनचूर्णिकृत् - "तेसुवि य महपुवयं सुयंति किच्चा पुढं मइनाणं कथं, तस्स पिट्ठतो सुर्य”ति, नन्वेते मतिश्रुते सम्यक्त्वोत्पादकाले युगपदुत्पत्तिमासादयतः, अन्यथा मतिज्ञानभावेऽपि श्रुताज्ञानप्रसङ्गः, स चानिष्टः, तथा [पि] मिथ्यात्वप्रतिपत्तौ युगपदेवाज्ञानरूपतया परिणमेते, ततः कथं मतिपूर्व श्रुतमिति, उक्तं च- " णाणाणण्णाणाणि य समकालाई जतो महसुयाई । तो न सुयं मपुषं मइनाणें वा सुअन्नाणं॥१॥" (वि. १०६) नैष दोषो, यतः सम्यक्त्वोत्पादकाले समकालं मतिश्रुते लब्धिमात्रमेवाङ्गीकृत्य प्रोच्येते न तूपयोगं, उपयोगस्य तथाजीवस्वाभाव्यतः क्रमेणैव सम्भवात्, मतिपूर्वं च श्रुतमुच्यते उपयोगापेक्षया, न खलु मत्युपयोगेनासश्चित्य श्रुतमन्धानुसारि विज्ञानमासादयति जन्तुस्ततो न कश्चिद्दोपः, आह च - " इह लद्धिमइसुबाई | समकालाई न त्वयोगो सिं । मइपुत्रं सुयमिह पुण सुयोव ओगो मइप्पभवो ॥ १॥” (वि. १०७) अथ मतिश्रुतयोः किंकृतो भेदः, | उच्यते, लक्षणभेदादिकृतः, उक्तं च- "लक्खणभेया हेतुफलभावतो भेयइंदियविभागा । वागक्खरमूगेतरभेया भेओ मह| सुयाणं ॥१॥ (वि. १०८) तत्र लक्षणभेदाद् भेदो भाव्यते - अभिमुखं - योग्यदेशावस्थितं नियतमर्थमिन्द्रियमनोद्वारेणात्मा
|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org