SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पौ ॥ १९ ॥ Jain Education int अजीवत्तणं पावेजा, सुहुवि मेहसमुदए होड़ पहा चंदसूराणं' (नन्दी) इति वचनात्, ततस्तस्य केवलज्ञानावरणावृतस्य धनपटलाच्छादितस्येव सूर्यस्य यो मन्दः प्रकाशः सोऽपान्तरालावस्थित मतिज्ञानाद्यावरणक्षयोपशमसम्पादितं नानात्वं भजते, यथा घनपटलावृत सूर्यमन्दप्रकाशोऽन्तरालावस्थितकटकुव्याद्यावरण विवरप्रदेशभेदतः, स च नानात्वं तत्तत्क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः स्वस्वक्षयोपशमानुसारेणाभिधानभेदमश्नुते, यथा मतिज्ञानावरणक्षयोपशमजनितो मतिज्ञानं श्रुतज्ञानावरणक्षयोपशमजनितः श्रुतज्ञानमित्यादि, तत आत्मस्वभावभूता ज्ञानस्याभिनिबोधिकादयो भेदाः, ते च | प्रतिवचनोपदर्शित परिस्थूरनिमित्तनेदतः पंचसङ्ख्याः, ततस्तदपेक्षमावारकमपि पञ्चधोपवणितमिति न कश्चिद्दोषः, न चैवमात्मस्वभावत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशम रूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य घनपटलावृतस्य मन्दप्रकाशभेदाः कटकुय्याद्यावरण विवरभेदोपाधिसम्पादिताः, ततः कथं ते निःशेषावर - णक्षयात् तथारूपक्षयोपशमाभावे भवितुमर्हन्ति ? न खलु संकलघनपटल कटकुव्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, उक्तं च- "कडविवरागयकिरणा मेहंतरियस्स जह दिसस्स । ते कडमेहावगमे न होंति | जह तह इमाईपि ॥ १॥” ततो यथा जन्मादयो भावा जीवस्यात्मभूता अपि कर्मोंपाधिसम्पादितसत्ताकत्वात्तदभावे न भवन्ति तद्वदाभिनि बोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषभावः, उक्तं च- "जमिह छउमत्यधम्मा जम्माईया न होंति सिद्धाणं । इय केवलीणमाभिषिलोहा भावंमि को दोसो १ ||१|| ” (४.८४५) इति ॥ अपरस्त्वाह-प्रपचा वयमुक्तयुक्तितो ज्ञानस्य पञ्चभेदत्वं परममीषां For Private & Personal Use Only आवरण भेदे हेतुः ॥ १९ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy