________________
दोत्ति ॥४॥ ओहिनाणस्स तहा अणिदिएसुपि जो खतोवसमो । मइसुयनाणाणं पुण लक्खणभेवाइतो मेमो ॥५॥" (ध.सं. 8||८३६-४०) यदप्युक्तम्-'ज्ञेयभेदकृत इत्यादि' तदनभ्युपगमतिरस्कृतत्वात् दुरापास्तप्रसरं, न हि वयं ज्ञेयभेदमात्रतोज्ञानभेदादमिच्छामः, एकेनाप्यवग्रहादिना बहुविधवस्तुग्रहणोपलम्भात्, यदपि च प्रत्यपादि-'प्रतिपत्तिप्रकारभेदकृत' इत्यादि,
तदपि न नो वाधामाधातुमलं, यतस्ते प्रतिपत्तिप्रकारा देशकालभेदेन आनन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन | व्यवस्थापितानाभिनिबोधिकादीन् जातिभेदानतिक्रामति, ततः कथमेकस्मिन् अनेकभेदभावप्रसङ्गः?, उक्तंच-"नय पडिवत्तिविसेसा एगमि अणेगभेयभावोऽवि जंतेतहाविसिढे न जातिभेदे विलंघति ॥१॥" (ध.सं.८४२)यदप्यवादीत्-'आवायोपेक्षं ह्यावारकमित्यादि' तदपि न नो बाधायै, यतः-परिस्थूरनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः ततस्तद|पेक्षमावारकमपि तथा भिद्यमानं न परवचनीयतामास्कन्दति, एवमुत्तेजितो भूयः सावष्टम्भं परः प्रश्नयति-ननु परिस्थूरनिभित्तभेदव्यवस्थापिता अप्यमी आभिनिवोधिकादयो भेदा ज्ञानस्यात्मभूता उतानात्मभूताः ?, किश्चातः , उभयथाऽपि दोषः, तथाहि-यद्यात्मभूतास्ततः क्षीणावरणेऽपि तद्भावप्रसङ्गः, तथा चासर्वज्ञत्वं प्रागुक्तनीत्या तस्यापन्नं, अथ अनात्म||भूतास्तहि न ते पारमार्थिकाः, ततः कथमावार्यापेक्षो वास्तव आवारकभेदः, तदपि न मनोरम, सम्यक् वस्तुतवापरिज्ञानात् , इह हि सकलघनपटलविनिर्मुक्तशारददिनमणिरिव समन्ततः समस्तवस्तुस्तोमप्रकाशनकस्वभावो जीवः, तस्य च तथाभूतः स्वभावः केवलज्ञानमिति व्यपदिश्यते, स च यद्यपि सर्वघातिना केवलज्ञानावरणेनानियते तथापि तखानम्नतमो भागो नित्योपारित पष, "अक्सरस अणंतो भागो निचुम्पासितो, मा पुष मोवि भावरेज्जा तेयं जीवो
आ...
Jain Education
For Private & Personal Use Only
Jainelibrary.org