SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ उपोदातेलासकलसंज्ञितमिति द्वावेवभेदौ, उक्तंच-"तम्हा अवग्गहाओ आरम्भ इहेगमेव नाणंति । जुत्तं छउमस्थस्सासगढ़ इयरं चला केवलिणो॥१॥" (ध०) अत्र प्रतिविधीयते-यत्तावदुक्तं 'सकलमपीदं ज्ञानं ज्ञयेकस्वभाव, ततो ज्ञप्त्येकस्वभावत्वाविशेषाभेदे हेतुः ॥१८॥ किंकृत एष आभिनिबोधिकादिभेद इति' तत्र ज्ञप्त्येकस्वभावता किं सामान्यतो भवताऽभ्युपगम्यते विशेषतो वा', तत्र | न तावदाद्यः पक्षः क्षितिमाधत्ते, सिद्धसाध्यतया तस्य बाधकत्वायोगात्, बोधरूपतारूपसामान्यापेक्षयाऽपि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यते एव, ततः का नो हानिरिति । अथ द्वितीयः पक्षस्तदयुक्तमसिद्धत्वात् , नहि नाम विशेषतोऽपि ज्ञानमेकमेवोपलभ्यते, प्रतिप्राणि स्वसंवेदनप्रत्यक्षेण उत्कर्षापकर्षकृतभेददर्शनात्, अथ यद्यत्कर्षापकर्षकतमात्रभेददर्शनात ज्ञानभेदस्तहिं तावुत्कर्षापकर्षों प्रतिप्राणि देशकालाद्यपेक्षया सहस्रशो विद्येते ततः कथं पश्चरूपता ?, नैष दोषः, परिस्थूरनिमित्तभेदतः पञ्चधात्वस्थ प्रतिपादनात्, तथाहि-सकलघातिक्षयो निमित्तं केवलज्ञानस्य मनःपर्यायज्ञानस्य त्वामर्षोषध्यादिलब्ध्युपेतस्य प्रमादलेशेनाप्यकलङ्कितो विशिष्टो विशिष्टाध्यवसायांनुगतोऽप्रमादः, 'तं संजयस्स सबप्पमायरहियस्स विविहरिद्धिमतो' इति वचनात् , अवधिज्ञानस्य पुनस्तथाविधोऽनिन्द्रियरूपिद्रव्यसाक्षादवगमनिवन्धनं अयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं, तच्चाग्रे वक्ष्यामः, उक्तं च-"नतेगसहावत्तं ओहेण विसेसतो पुणअसिद्धं । एगंततस्सहावत्तणे उ कह हाणिवुडीओ ॥ १ ॥जं अविचलियसहावे नत्ते एर्गततस्सहावत्त । न यतं तहोवलद्धं उक्करिसावगरिसविसेसा ॥२॥ तम्हा परिथूरातो निमित्तभेयाउ समयसिद्धातो। उववत्तिसंगतोचिअ आभिथिबोहाइतो भेओ॥३॥घाइक्खतो. निमित्तं केवलनाणस्स वण्णिओ समए । मणपज्जवनाणस्स उ तहाविहो अप्पमा CACANC47 SACACACA + C + Jain Education For Private & Personal use only S wjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy