________________
XXNXX
तद्भेदात् ज्ञानस्यापि पञ्चधा भेद उद्गीयेत, अथ स्वभावत एवाभिनियोधिकादिको ज्ञानस्य भेदो, न च स्वभावः पर्यः नुयोगमर्हति, न खलु किमिह दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगयाचरति, 'अहो महती महीयसो भवतः मुषी, ननु यदि स्वभावत एवाभिनिबोधिकादिको ज्ञानस्य भेदस्तहि भगवतः सर्वज्ञत्वहानिप्रसङ्गः, तथाहि-ज्ञानमात्मनो धर्मस्तस्य चाभिनिबोधिकादिको भेदः स्वभावत एव व्यवस्थितस्ततः क्षीणावरणस्यापि तद्भावप्रसङ्गा, सति च तद्भावेऽस्मादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापन्नं, आमिनिबोधिकादिभिनिर्वस्तुपरिच्छेदात्, केवलज्ञानभावतः समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमिति चेत्, ननु यदा केवलज्ञानोपयोगसम्भवस्तदा भवतु सर्वज्ञत्वं, यदा त्वाभिनिबोधिकादिज्ञानोपयोगस्तदा देशतः परिच्छेदादस्मादृशस्येव बलादसर्वज्ञत्वमापद्यते, न च वाच्यं तस्य तदुपयोग एव न भवति, आत्मस्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात् , केवलज्ञानानन्तरं केवलदर्शनोपयोगवत्, ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्वज्ञत्वमेव, तच्च विरुद्धमिति, आह च-"नत्तेगसहावते आभिनिबोधाइ किंकओ मेओ। नेयविसेसाओ चे न सबविसयं जतो चरिमं ॥१॥ अह पडिवत्तिविसेसा नेगेमि अणेगमे. यभावातो। आवरणविभेयओऽविहु सभावभेयं विणा न भवे ॥२॥ तम्मि य सइ सवेसिं खीणावरणस्स पावई भावो। तद्धम्मत्ताओच्चिय जुत्तिविरोहो स चाणिडो॥३॥ अरहावि असवण्णू आभिणिबोहाइभावतो नियमा। केवलभावाओ चे सघण्णू नणु विरुद्धमिणं ॥४॥” (धर्मसंग्रहणी) तस्मादिदमेव युक्तियुक्तं पश्यामो यदुत अवग्रहज्ञानादारभ्य यावदुत्कप्राप्तं परमावधिज्ञानं तावत् सकलमप्येकं, तचासकलसंज्ञितमशेषवस्तुविषयत्वाभावात्, अपरं च केवलिनः, तब
Jain Education International
For Private & Personal use only
www.jainelibrary.org