________________
उपोद्धा
॥ १७ ॥
सरणात्, सूत्रं चेदं - 'नाणं पंचविहं पन्नत्तं, तंजहा - आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाण'मिति, ननु सकलमपीदं ज्ञानं ज्ञत्येकस्वभावं, ततो ज्ञत्येकस्वभावत्वाविशेषे किंकृत एष आभिनिवोधिकादिको भेदः, ज्ञेयभेदकृत इति चेत्, तथाहि वार्त्तमानिकं वस्त्वाभिनिबोधिकज्ञानस्य विषयः त्रिकालसाधारणसमानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य रूपिद्रव्याण्यवधिज्ञानस्य मनोद्रव्याणि मनःपर्यायज्ञानस्य समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य तदेतदसमीचीनं, एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तेः तथाहि - ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिवोधिकादिज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गात्, अविषयत्वात्, तथा च सति केवलिनोऽप्य सर्वज्ञत्वप्रसङ्गः, आभिनिवोधिकादिज्ञानचतुष्ट्यविषयजातस्य तेनाग्रहणात्, न चैतदिष्टमिति, अथोच्येत - प्रतिपत्तिप्रकारभेदत अभिनिवोधिकादिभेदः, तथाहिन यादृशी प्रतिपत्तिराभिनिवोधिकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्तु अन्यादृशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यं, ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तं, एवं सत्येकस्मिन्नपि ज्ञानेऽनेकभेदप्रसक्तेः तथाहि-- तत्तद्देशकालस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते, तन्नैषोऽपि पक्षः श्रेयान् स्यादेतद्-अस्त्यावारकं कर्म तत्त्वनेकप्रकारं ततस्तद्भेदात्तदावायें ज्ञानमप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म्म पञ्चधा, प्रज्ञापनादौ तथाभिधानात् ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेतदतीवायुक्तिसङ्गतं यतः आवार्यापेक्षं ह्यावारकमत आवार्यभेदादेव तद्भेदः, नतु तद्भेदादावार्यभेदः, आचार्य च ज्ञप्तिरूपापेक्षया सकलमप्येकं, ततः कथमावारकस्य पञ्चरूपता येन
Jain Education International
For Private & Personal Use Only
केवले शे
पाभावः
आवरण
भेदे हेतुश्च
॥ १७ ॥
www.jainelibrary.org