________________
PRASAKASACARACHAR
समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा २ देशतोऽभिव्यक्तिरुपजायते, सा च कचित् कदाचित्कथञ्चिद्भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकदक्षपारमार्थिकस्वरूपस्याप्यावरणमलपटतिरोहितस्वरूपस्य यावन्नाद्यापि निखिलकर्ममलापगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्वथा तथा देशतस्तस्य विज्ञप्तिरुज्जम्भते, सा क्वचित् कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च-"मलविद्धमणेयक्तिर्यथाऽनेकप्रकारतः। कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः॥१॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशशक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शन
चारित्रप्रभावतो निःशेषावरणप्रहाणादशेषदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्ति. | रुल्लसति, तथा चोकम्-“यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्धदात्मनः॥१॥" ततो मत्यादिनिरपेक्ष केवलज्ञानं, अथवा शुद्धं केवलं तदावरणमलकलङ्कस्यानवयवशोऽपगमात्, सकलं वा केवलं प्रथमत एवाशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तत्वात्, केवलं च तत् ज्ञानं च केवलज्ञानं, यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासिज्ञानमिति भावः, चशब्दो मनःपर्ययज्ञानेन सहास्याप्रमत्तयतिभावादिना साधर्म्यप्रदर्शनार्थः, तथाहि-यथा मनःपर्यवज्ञानमप्रमत्तयतेरेवोद| यते तथा केवलज्ञानमपीत्यप्रमत्तयतिसाधर्म्य, तथा यथा मनःपर्यायज्ञानं न विपर्ययमासादयति तथा केवलज्ञानमपीति | विपर्ययाभावसाधये, 'पञ्चमक'मिति पञ्चममेव पञ्चमकं प्राकृतत्वात् स्वार्थे कप्रत्ययः पञ्चमता चास्य सूत्रक्रमप्रामाण्यानु
+ KA++%AK
Jain Education Internet
For Private & Personal use only
jainelibrary.org