SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ उपोद्धाते ACTRONACA% इति.स चासौ ज्ञानं चमनःपर्यवज्ञानं मनःपर्ययज्ञानं वा, अपरे-'मणपजयनाण'मिति पाठेऽपि मनःपर्यायज्ञानमिति शब्दसं-14 अन्येपां स्कारमाचक्षते. तत्रैवं व्युत्पत्तिः-मनांसि-मनोद्रव्याणि पर्येति-सवात्मना परिच्छिनत्ति मनःपर्यायं, 'कर्मणोऽणि त्यण, प्रत्यक्षता मनःपर्यायं च तज्ज्ञानं च मनःपर्यायज्ञानं, यदिवा मनसः पर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा वाद्यवस्त्वालोचना प्रकारा इत्यर्थः तेषु तेपांवा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमुद्रान्तत्र्तिसंज्ञिमनोगतद्रव्यालम्बनमेव । तथाशब्दोऽवधिज्ञानेन सहास्य छद्मस्थत्वादिभिः सारूप्यप्रदर्शनार्थः, तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मनःपर्यवज्ञानमपीति छद्मस्थसाधर्म्य, यथा वाऽवधिज्ञानं रूपिद्रव्यविषयं तथा मनःपर्यवज्ञानमपि, तस्य मनःपुद्गलालम्बनत्वादिति विषयसाधर्म्य, तथा यथाऽवधिज्ञानं क्षायोपशमिकभावे वर्तते तथा मनःपर्यायज्ञानमपीति भावसाधर्म्य, यथा चावधिज्ञानं प्रत्यक्षं तथा मनःपर्यायमपि, तथाहि-अक्षोभण्यते जीवः एतच्च प्रागेवोपपादितं, अक्षं-जीवं प्रति साक्षादुर्चते यत् ज्ञानं तत्प्रत्यक्ष-इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमत्प्रत्यक्षमित्यर्थः, तच्चावध्यादि त्रिभेदं उक्तंच-"अक्खो भन्नइ जीवो वावणभोयणगुणन्नितो जेणं । तं पइ वट्टइ नाणं जं पच्चक्खं तयं तिविहं॥१॥"(भा.८९ अक्खो अस्थ.) इति प्रत्यक्षसाधय । तथा केवलमेकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् ,मत्यादिज्ञाननिरपेक्षता च केवलज्ञानप्रादुर्भाव मत्यादीनामसम्भवात् ,ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुःष्यन्ति ततो निर्मूलस्वस्वावरणवि 1 ॥१६॥ लये तानि सुतरां भविष्यन्ति चारित्रपरिणामवत्, उक्तं च-"आवरणदेसविगमे जाई विजंति मइसुयाईणि । आवरणसहविगमे.कह वाइँ न होति जीवस्स॥१॥" उच्यते-इह यथा. जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि Jain Educatonin For Private & Personal Use Only P w .jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy