________________
श्रोत्रादीन्द्रियाश्रितं ज्ञानं परमार्थतः प्रत्यक्षं तत्कथमवग्रहादयः परोक्षत्वेनाग्रेऽभिहिता, तस्मादुत्तरत्रेन्द्रियाश्रितज्ञानस्य | परोक्षत्वेनाभिधानादवसीयते प्रागिन्द्रियाश्रितं ज्ञानं संव्यवहारतः प्रत्यक्षमुक्तं, न परमार्थतः, आह्न च भाष्यकृत्"एगन्तेण परोक्खं लिंगियमोहाइयं च पञ्चक्खं । इंदियमणोभवं जं तं संववहारपच्चक्खं ॥ १ ॥” ( भा० ९५ ) इति । तथा अवशब्दोऽधः शब्दार्थः अव-अधोऽधो विस्तृतं वस्तु धीयते - परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिः- मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, यद्वा अवधानं - आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोक्तज्ञानद्वयेन सहास्य स्थित्यादिभिः साधर्म्यप्रदर्श| नार्थः, तथाहि - यावानेव मतिश्रुतयोरनन्तरमुक्तः प्रवाहापेक्षया अप्रतिपतितैकसच्चाधारापेक्षया वा स्थितिकालस्तावानेवाव| धिज्ञानस्यापीति स्थितिसाधर्म्य, तथा यथैव मतिश्रुते मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतस्तथाऽवधिज्ञानमपि, तथाहि मिथ्यादृष्टेस्तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञान श्रुताज्ञानविभङ्गज्ञानानि भवन्ति, उक्तं च- 'आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्त" मिति (प्रश.) विपर्ययसाधर्म्य, तथा य एव मतिश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि, | तथाहि - विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसम्भव इति लाभसाधर्म्य । तथा परि-सर्वतो भावे, अवनमवः, 'तुदादिभ्यो नक्कौ' इत्यधिकारे 'अकितो वे'त्यनेन औणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्ययो मनःपर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः भावेऽल्प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः सर्वतस्तत्परिच्छेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org