SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ शिबिका बास्त उपोद्धात यावच्च निष्क्रमणाभिषेकोऽलङ्कारश्च क्रियमाणो वर्त्तते तावद्धरणितलं गगनतलं चागच्छद्भिर्गच्छद्भिश्च देवैर्देवीभिश्च निराकर नियुक्ती तान्तरं व्याप्तमद्योतितं चावतिष्ठते, तत उक्तम्-'धरणियले गयणतले विजुजोओ कतो खिप्पं ॥ जाव य कुंडग्गामो'इत्यादि, श्रीवीर- तत एवं निष्क्रमणाभिषेकेणाभिषिक्त सर्वालङ्कारविभूषिते च भगवति नन्दिवर्द्धनराज्ञा उपदिष्टाः कौटुम्बिकपुरुषा:-अनेक-12 चरिते स्तम्भशतसन्निविष्टां मणिकनकविचित्रां पञ्चाशद्धनुरायामां पञ्चविंशतिधनुविस्तीर्णा षट्त्रिंशद्धनुरुच्चां चन्द्रप्रभाभिधानां शिविकामपस्थापयतेति, तेऽपि तथैवोपस्थापयन्ति (एवं शवोऽपि शिबिकां कारयति) नवरं तस्याः प्रागुतविमानस्येव ॥२६॥ वर्णको वक्तव्यः, केवलं सा शिबिका तामेव नन्दिवर्द्धनकारितां शिबिकां दिव्यानुभावतः प्रविष्टा, ततः साऽतीव | मुन्दरतरा जाता, ततस्तस्यां शिबिकायामुपस्थापितायां भगवान सिंहासनादुत्थाय अलङ्कारसभातो विनिर्गच्छति, विनिदत्य यत्र चन्द्रप्रभा शिबिका तत्रागच्छति, ततस्तां प्रदक्षिणीकृत्य समारोहति, आरुह्य च सिंहासनवरगतः पूर्वाभिमुखः | सन्निषण्णः। आह चचंदप्पभा य सीया उवणीया जम्ममरणमुकरस । आसन्नमल्लदामा जलथलयंदिवकुसुमेहिं ॥२२॥ भा०॥ । चन्द्रप्रभाभिधाना शिबिका या उपनीता-आनीता, कस्येत्यत आह-जन्ममरणाभ्यां मुक्त इव मुक्तस्तस्य, वर्द्धमानस्येत्यर्थः॥ किंभूता सेत्याह-आसतानि माल्यदामानि यस्यां सा तथा, तथा जलस्थलजैश्च दिव्यकुसुमेरर्चितेति वाक्य शेषः॥ संप्रति शिबिकाप्रमाणदर्शनार्थमाह |॥२६२॥ पंचासहआयामा धणूणि विच्छिण्ण पण्णवीसं तु । छत्तीसं उबिद्धा सीया चंदप्पभा भणिया॥९३ ॥ भा० ॥ Jain Education Inter For Private & Personal use only IALww.iainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy