SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ मणाभिषेकसामग्री कारितवान्, तत्राष्टाधिकं सहनं सौवर्णिककलशानां १ अष्टसहवं रूप्यमयागां २ असहस्र मपि-1 मयानां ३ अष्टसहनं सुवर्णरूप्यमयानां ४ अष्टसहस्रं सुवर्णमणिमयानां ५ अष्टसहर्ष रूप्यमणिमयानां ६ अष्टसहनं हा सुवर्णरूप्यमणिमयानां ७ अष्टसहनं भौमेयानां निष्पन्नं । तदनन्तरमासनं शक्रस्य चलितं, ततो यथा प्राक् कषभदेव-1 *जन्माभिषेकद्वारे शक्रागमनमुपवर्णितं तथैवात्राप्यन्यूनातिरिक्तमुपवर्णयितव्यं, यावत्तेन दिव्येन यानविमानन स्वामि भवनस्य त्रिकृत्वः प्रदक्षिणां कृत्वा भगवतो भवनस्य उत्तरपूर्वस्यां दिशि चतुरलैर्धरणितलमसंप्राप्तं तत् दिव्यं यातवि16मानं स्थापयति, ततो दिव्ययानविमानाद्विनिर्गत्य सर्वसामग्रीपरिकलितो भगवन्तं पर्युपासीन आस्ते, एवं पूर्वक्रमेण ईशानेन्द्रादयोऽच्युतेन्द्रपर्यवसाना इन्द्राः सपरिवारा वक्तव्याः, तथा भवनपतिव्यन्तरज्योतिष्केन्द्रा अपि सपरिच्छदा, ततो यथा प्राग् ऋषभस्वामिनो जन्माभिषेकमच्युतेन्द्रादयः कृतवन्त उक्तास्तथाऽत्रापि वक्तव्या यावत् शक्रेण कृतोऽभि कः, ततो येऽच्युतेन्द्राधाभियोग्यदेवकृताः सौवर्णादिकलशास्ते नन्दिवर्द्धनकौटुम्बिकपुरुषनिर्तितसौवर्णादिकलशेषु । दिव्यानुभावतः प्रविष्टाः, ततस्ते अधिकतरं शोभितवन्तः, ततः स नन्दिवर्धनो राजा स्वामिनं सिंहासने पूर्वाभिमुखं निवेश्य | 18 देवानीतक्षीरोदसमुद्रादिपानीयः सर्वतीर्थमृत्तिकाभिः सर्वकषायैः सौवर्णादिकलशैरभिषेकं कर्तुमारब्धवान्, सस्मिंश्चाभिषेक कुर्वत्ति सर्वे इन्द्राः सपरिवाराः केचित् कृताञ्जलिपुटाः केचित्कलशहस्तग्रताः केचित् भृङ्गारहस्तगताः केचिदादहस्तग जयजयशन्दं प्रयुञ्जानाः स्वामिनः पुरतोऽवतिष्ठन्ते, शेषं सर्व हिरण्यवर्षादि ऋषभनाथजन्माभिषेकवद्वाच्यं, ततो जन्माभिषेकानन्तरमलङ्कारसभायां केशालङ्कारेण वनालङ्कारेण माल्यालङ्कारेण आभरणालङ्कारेण भगवन्तमलकारितवान्, - Jain Educatanntematon For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy