________________
-
महतां निष्क्रमणकाले सम्बोधनं कर्त्तव्यमिति, तत एवं चिन्तयित्वा उत्तरपूर्वी दिशमवक्रम्य द्विकृत्वो वैक्रियसमुद्घातेन समवहत्योत्तरवैक्रियाणि रूपाणि विकुर्वते, विकुर्वित्वा भगवतः समीपमागत्याकाशे स्थिता मधुराभिर्वाग्भिरेवमवादिषुः-'जय जय नंदा! जय जय भद्दा!,जय जय मुणिवरवसभा, बुज्झाहि भगवं! लोगनाहा!, पवत्तेहि भयवं! धम्मतित्थं, हियसुहनिस्सेसकरं जीवाणमेयं भविस्सइत्ति, ततो वन्दन्त नमस्यन्ति, वन्दित्वा नमस्यित्वा यत आगतास्तत्र गताः। एतदेवाहसारस्सयमाइचा वण्ही वरुणा य गहतीया य । तुसिया अवाबाहा अग्गिचा चेव रिट्ठा य॥८६॥ भा०॥ एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सवजगज्जीवहियं भयवं! तित्थं पवत्तेहि ॥ ८७॥ भा०॥ एवं अमिथुवंतो बुद्धो बुद्धारविंदसरिसमुहो। लोगंतियदेवेहि कुंडग्गामे महावीरो ॥ ८ ॥ भा० ॥
इदमपि गाथात्रयं सुगमत्वात् प्राग्व्याख्यातत्वाच्च न प्रतन्यते, ननु पूर्वमृषभदेवाधिकारे पूर्व सम्बोधनमुक्तं पश्चाहानं 'संबोहणपरिचाएं इति पाठकमात्, इह तु पूर्व दानं पश्चात्सम्बोधनं 'दाणे संबोह निक्खमणे'। इति वचनात् , ततः कथं परस्परं न विरोधः, नैष दोषो, न सर्वतीर्थकराणामयं नियमो यदुत-सम्बोधनोत्तरकाल-11 भाविनी महादानप्रवृत्तिः, किन्तु केषांचिदेवमपि भवति-पूर्व महादानं पश्चात्सम्बोधनमिति, 'दाणे संवोह निक्खमणे'। इति वचनात् , अथवा भवतु नियमः, स च द्विधा घटते-पूर्व सम्बोधनं पश्चान्महादानमधवा पूर्व महादानं पश्चात्सम्बो-1
तत्र पूर्वनियमेन सम्बोधनद्वारादि दानद्वारस्य प्रागुपन्यासो बहुतरवक्तव्यत्वाददुष्टः, पश्चात्तने तु नियमे पूर्वमृषभ-12
द
Jain Education Inter
4
For Private & Personal use only
X
ww.jainelibrary.org