SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ उपोदात- नियुक्तिः ॥२४॥ मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिवर्तितः, त्रिपदीकाले च नीचैर्गोत्रकर्म बद्धमिति, अमुमेवार्थ प्रतिपादयन्नाह- मरीचि. दुम्भासिएण इक्केण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडिं सागरसरिनामधिज्जाणं ॥ ४३८॥ वृत्तांत तंमूलं संसारो नीआगुत्तं च कासि तिवइम्मि । अपडिक्कतो बंभे कविलो अंतद्धिओ कहए ॥ ४३९ ॥ प्रथमगाथागमनिका-दुर्भाषितेन एकेन उक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तः, भ्रान्तः कोटीकोटीनां, केषामित्याह-'सागरसरिनामघेजापति सागरसदृशनामधेयानां, सागरोपमाणामिति गाथार्थः॥ द्वितीयगाथागमनिका-'तन्मूलं' दुर्भाषितमूलं संसारः सञ्जातः, तथा स एव नीचैर्गोत्रं च 'कृतवान्' निष्पादितवान् त्रिपद्यां-प्राग्वर्णितस्वरूपायामिति, 'अपडिक्कतो बभेति स मरीचिश्चतुरशीतिपूर्वशतसहस्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषिताद् गर्वाच्चाप्रतिक्रान्त:अनिवृत्तः ब्रह्मलोके दशसागरोपमस्थितिर्देवः सञ्जात इति ॥ कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रवाजित इति, तस्य स्वमाचारमात्रं दिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा शिष्यप्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स ह्युत्पत्तिसमनन्तरमेवावधिं प्रयुक्तवान्, किं मया हुतं वेष्टं वा में ॥२४७॥ दानं वा दत्तं येनैषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय चिन्तयामास-मम शिष्यो न किञ्चिद्वेत्ति, तत्तस्योपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं जगाद, आह च-'कपिलो अंतद्धिओ कहए' कपिलः * अन्तर्हितः कथितवान्, किं, अव्यक्ताद् व्यक्तं प्रभवति, ततः पष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिण:-"प्रकृते. +44-8C-ASCI-CONGRESCA Jain Education temational For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy