________________
Jain Education International
महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानी ॥ १ ॥” त्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः ॥
इक्खागेसु मरीई चउरासीई अ बंभलोअम्मि । कोसिअ कुल्लागम्मी असीहमाउं च संसारो ॥ ४४० ॥ गमनिका - इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्राण्यायुष्कं पालयित्वा 'बंभलोयंमि' ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयात् च्युत्वा 'कोसिय कोल्लाएस' (यंमी) त्ति कोल्लाकसन्निवेशे कौशिको नाम ब्राह्मणो बभूव, 'असीतिमाउं च संसार'त्ति स च तत्राशीतिपूर्वशतसहस्राण्यायुष्कमनुपालय 'संसार'त्ति तिर्यग्नरनारकामरभवानुभूतिलक्षणे संसारे पर्यटित | इति गाथार्थः ॥ संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्यां जात इति, अमुमेवार्थ 'थूणा ये' त्यादिना प्रतिपादयतिथूणाई प्रसमित्तो आउं बावन्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवट्ठी चैव ईसाणे ॥ ४४१ ॥
स्थूणायां नगर्यां पुष्पमित्रो नाम ब्राह्मणः सञ्जातः, 'आउं बावन्तरिं च सोहम्मे 'ति तस्यायुष्कं द्विसप्ततिपूर्वशतसहस्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पेऽजघन्योत्कृष्टस्थितिः समुत्पन्न इति । 'चेइय अग्गिज्जोतो चोयट्ठीसाणकप्पंमि' (चेव ईसाणे ) ति सौधर्म्माच्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः सञ्जातः, तत्र चतुःषष्टिपूर्वशतसहस्राण्यायुष्कमासीत्, परिव्राट् सञ्जातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः ॥ मंदिरे अग्गिमूई छप्पन्नाउं सणकुमारम्मि । सेअवि भारद्दाओ चोआलीसं च माहिंदे ॥ ४४२ ॥ गमनिका - ईशानाच्युतो 'मन्दिर' इति मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पञ्चाशत् पूर्वशत
For Private & Personal Use Only
www.jainelibrary.org