________________
is गमनिका-एवं स्तुत्वा, एहमिति निपातः पूरणार्थो वर्चते, कृत्वा प्रदक्षिणां च त्रिकृत्वः, आपृच्छच पितरं-ऋषभदेवं ।। विनीतनगरीम्-अयोध्यामथ-अनन्तरं प्रविष्टो भरत इति गाथार्थः ॥ अत्रान्तरे
तबयणं सोऊणं तिवई अप्फोडिऊण तिक्खुत्तो। अन्भहिअजायहरिसो तत्थ मरीई इमं भणइ ॥४३०॥ गमनिका-तस्य भरतस्य वचनं तद्वचनं श्रुत्वा, तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदीं दत्त्वा रङ्गमध्यगतमल्लवत्, तथा आस्फोव्य त्रिकृत्वा, तिस्रो वारा इत्यर्थः, किंविशिष्टः संस्तत आह-अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने मरीचिरिद-वक्ष्यमाणं भणति, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः॥
जह वासुदेव पढमो मूआइ विदेह पकवहितं । चरिमो तित्थयराणं होउ अलं इत्ति मज्झ ॥ ४३१॥ गमनिका-यदि वासुदेवः प्रथमोऽहं, मूकायां विदेहे चक्रवर्तित्वं प्राप्स्यामि,तथा चरमः-पश्चिमः तीर्थकराणां भविष्यामि एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, अलं पर्याप्तमन्येनेति,पाठान्तरं वा 'अहो मए एत्तियं लद्धति गाथार्थः॥ अयं च दसाराणं पिया य मे चक्कवहिवंसस्स । अजो तित्थयराणं अहो कुलं उत्तम मज्झ ॥४३२॥ ४
गमनिका-अहमेव, चशब्दस्यैवकारार्थत्वात्, किं-दसाराणं, प्रथमो भविष्यामीति वाक्यशेषः, पिता च में मम चक्रवर्तिवंशस्य, प्रथम इति क्रियाध्याहारः, तथा 'आर्यक' पितामहः स तीर्थकराणां प्रथमः, यत एवमत अहो-विस्मये कुलमुत्तमं ममेति गाथार्थः॥ पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह
अह भगवं भवमहणो पुत्राणमणूणयं सयसहस्सं । अणुपुवि विहरिऊणं पत्तो अट्ठावयं सेलं ॥ ४३३ ॥
Jain Education Inter
For Private & Personal use only
X
w.jainelibrary.org