________________
| वत्ती भविष्यति, एवं तीर्थकरोकानुवादः, सर्वत्र भविष्यकालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालगोचरसूत्रप्रदर्शनार्थों वा भूतेनापि न दुष्यति, तथा चावोचत्-'मघंवसणंकुमारा सणंकुमारं गया कप्पमित्यादि, एवं सर्वत्र संयोज्यमिति, मघवा सनत्कुमारश्च एतच्चक्रवर्तिद्वयं धर्मश्च शान्तिश्च अनयोरन्तरं जिनान्तरं तस्मिन् जिनान्तरे उक्तलक्षणं चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः। द्वितीयगाथागमनिका-शान्तिः कुन्थुश्च अरः एते त्रयोऽप्यशोकाद्यष्टमहापातिहार्यादिरूपां पूजामहंतीत्यर्हन्तश्चैव चक्रवर्तिनश्च, तथा अरमल्यन्तरे तु भवति सुभूमश्च कौरव्यः, तुशब्दोऽन्तरविशेषणे, नान्तर| मात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्य इति गाथार्थः । तृतीयगाथागमनिका-मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वौ ?-पद्मनामहरिसेनौ, 'नमिनेमिसु जयणामो अरिठ्ठपासंतरे बंभो'त्ति नमिश्च नेमिश्च नमिनेमी, अन्तरग्रहणमभिसम्बध्यते, ततश्च नमिनेम्यन्तरे जयनामा अभवत्, अरिष्ठग्रहणादरिष्ठनेमिः पार्थेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः॥ इदानी वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीदसौ प्रतिपाद्यते| पंचरहंते वंदंति केसवा पंच आणुपुबीए । सिज्जंस तिविट्ठाई धम्म पुरिससीहपेरंता ॥ ४१९॥
अरमल्लिअंतरे दुन्नि केसवा पुरिस-पुंडरिअदत्ता । मुणिसुवय-नमिअंतरे नारायण कण्ह नेमिम्मि ॥४२०॥ गमनिका-पञ्चाहतो वन्दन्ते केशवाः, एतदुक्कं भवति-पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्यक्त्वख्यापनार्थमिति, कियन्तोऽर्हन्तः किमेकः द्वौ वा त्रयो वा, नेत्याह-पञ्च, पञ्चेति पञ्चैव, किं यथाकथञ्चिदित्याह-'आनुपूा' परिपाट्या, 'सेजंस तिबिहाइ धम्म पुरिससीहपेरंता' श्रेयांसादीन तिपृष्ठादयः धर्मपर्यन्तान् पुरुषसिंहपर्यन्ता इति,
Main Education Inter
For Private & Personal use only
Riw.jainelibrary.org