________________
है तच्छोकोपशान्तये भगवन्तमवग्रहं पप्रच्छ-कतिविधः अवग्रह इति, भगवानाह-पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रावग्रहो । जा राजावग्रहो गृहपत्यवग्रहः सागारिकावग्रहः साधम्मिकावग्रहश्च, तत्र देवेन्द्रः-सौधर्माधिपतिः, राजा भरताधिपो गृह्यते, गृहपतिः-माण्डलिको राजा, सागारिकः-शय्यातरः, साधम्मिकः संयत इति, एतेषां चोचरोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजावग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन् । य एते श्रमणा मदीयावग्रहे विचरन्ति तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधायाभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयद्-अहमपि स्वकीयमवग्रहमनुजानामीत्येतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्-भकपानमिदमानीतम्, अनेन किं कार्यमिति, देवराडाह-गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्-के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः!, पोलोचयता ज्ञातं-श्रावका विरताविरतत्वाद गुणोत्तराः, तेभ्यो दत्तमिति, पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमत् तादृष्ट्वा पृष्टवान्-किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठतेति? उत नेति, देवराट् आह-नेति, तन्मानुषैद्रष्टुमपि न |पायेंते, भास्वरत्वात्, पुनरप्याह भरत:-तस्याकृतिमात्रेणास्माकं कौतुकं तन्निदश्यतां, देवराज आह-स्वमुत्तमपुरुष ॥ इतिकृत्वैकमडावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितामङ्गलीमत्यन्तभास्वरामदर्शयत्, दृष्ट्वा च तां भरतोऽ-| दातीव मुमुदे, शक्राङ्गुली च स्थापयित्वा महिमाष्टाहिकां चक्रे, ततःप्रभृति शक्रोत्सवः प्रवृत्त इति, भरतश्च श्रावकाना
इयोतवान्-भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं । कृप्यादि चन कार्य २ स्वाध्यायपरैरासितव्यं ३ भुक्ते च मदीयगृहद्वारासन्नव्यवस्थितैर्वतव्यमूजितो अवान बर्द्धते भयं तस्मान्मा हनमा हनेति ४, ते तधैव कृतवन्तः, भरतश्च रतिसा-15
आ.स.१०
Jain Education Item
For Private & Personal use only
Www.jainelibrary.org