________________
गाथागमनिका-व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहंत नेत्थं यतः अतो मोहाच्छादितस्य छत्रक भवतु, अनुपानत्काश्च श्रमणाः मम चोपानहौ भवत इति गाथार्थः। तथा
सुकंबरा य समणा निरंपरा मज्झ धाउरत्ताई।हुंतु इमे वत्थाई अरिहो मि कसायकलुसमई ॥३५७॥
गाथागमनिका-शुक्लान्यम्बराणि येषां ते शुक्लाम्बरा श्रमणाः, तथा निर्गतमम्बरं येषां ते निरम्बरा:-जिनकल्पिकादयः, 'मज्झति मम च, एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः, धातुरतानि भवन्तु मम वस्त्राणि, किमिति, | अर्थोऽस्मि योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः॥
वजंतऽवजभीरू बहुजीवसमाउलं जलारंभं । होउ मम परिमिएणं जलेण हाणं च पिअणं च ॥ ३५८॥ गाथागमनिका-वर्जयन्त्यवद्यभीरवो बहुजीवसमाकुलं जलारम्भ, तत्रैव वनस्पतेरवस्थानात् , अवयं-पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः॥
एवं सो रुइयमई निअगमइविगप्पिअं इमं लिंगं । तद्धिअहेउसुजुत्तं पारिवलं तओ कासी ॥ ३५९॥ स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितम् | इदं लिङ्गं विशिष्टं, तस्य हितास्तद्धिताः तद्धिताश्च हेतवश्चेति समासः तैः सष्ठ युक्तं श्लिष्टमित्यर्थः परिव्राजानामिदं पारिवाज *प्रवर्तयति, शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा 'पारिवजं ततो कासित्ति पारिवाजं ततः ||
कृतवानिति गाथार्थः॥भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्टा कौतुकाल्लोकः पृष्टवान्, तथा चाह-2
%%%%25-25303
Jain Education International
For Private & Personal use only
www.jainelibrary.org