________________
4%
उपोद्धातनियुक्तिः
मरीचे
95
पारिवज्यं
॥२३३॥
stroSEARCH
गाथागमनिका-श्रमणा मनोवाकायलक्षणत्रिदण्डविरताः ऐश्वर्यादिभगयोगाद्भगवन्तः निभृतानि-अन्तःकरणान्यशुभव्यापारपरित्यागात् सङ्कचितानि-अशुभकायव्यापारपरित्यागादङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो, यतः 'अजितेन्द्रिये'त्यादि न जितानि इन्द्रियाणि-चक्षुरादीनि दण्डाश्च-मनोवाक्कायलक्षणा येन स तथोच्यते, तस्याजितेन्द्रियदण्डस्य तु त्रिदण्डं मम चिन्हं अविस्मरणार्थमिति गाथार्थः॥ तथा
लोइंदियमुंडा संजया उ अयं खुरेण ससिहो अथूलगपाणिवहाओ वेरमणं मे सया होउ ॥ ३५४॥ . गाथागमनिका-मुण्डो हि द्विधा भवति-द्रव्यतो भावतश्च, तत्रैते श्रमणा द्रव्यभावमुण्डाः, कथं ? लोचेनेन्द्रियैश्च मुण्डाः संयतास्तु, अहं पुनर्नेन्द्रियमुण्डः यतः अतोऽलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः श्रमणा वर्तन्ते, अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवविति गाथार्थः। निकिंचणा य समणा आकिंचणा मज्झ किंचणं होउ । सीलसुगंधा समणा अहयं सीलेण दुग्गंधो ॥ ३५॥ गाथागमनिका-निर्गतं किञ्चनं-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः, तथाऽविद्यमानं किञ्चन-अल्पमपि येषां तेषां अकिञ्चना जिनकल्पिकादयः, अहं तु नैवंविधो यतोऽतो मार्गाविस्मृत्यर्थ मम किञ्चनं भवतु, पवित्रिकादि, तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः श्रमणाः अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः॥ तथा
ववगयमोहा समणा मोहच्छन्नस्स छत्तयं होउ । अणुवाणहा य समणां मज्झं तु उवाणहे हुन्तु ॥ ३५६ ॥
॥२३३॥
Jain Education in
For Private & Personal use only
I&I www.jainelibrary.org