SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ उपोद्घाते ॥ १४ ॥ Jain Education Inter चान्येनानुभूतेऽर्थेऽन्यस्य स्मरणं, मा प्रापदतिप्रसङ्गः, अपिच - मा भूच्चक्षुषोऽपगमस्तथापि यदि चक्षुरेव द्रष्टृ ततः स्मरणमात्मनो न भवेत्, अन्येनानुभूतेऽ ́ ऽन्यस्य स्मरणायोगाद् भवति च स्मरणमात्मनः, चक्षुषः स्मर्तृत्वेनाप्रतीतेः अनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा नेन्द्रियमिति तथा चात्र प्रयोगः - यो येषूपरतेष्वपि तदुपलब्धानर्थान् स्मरति स तत्रोपलब्धा, यथा गवाक्षोपलब्धानामर्थानामनुस्मर्त्ता देवदत्तः, अनुस्मरति च द्रव्येन्द्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमे|ऽप्यात्मा, इह स्मरणमनुभवपूर्वकतया व्याप्तं, व्याप्यव्यापकभावश्चानयोः प्रमाणतः प्रतिपन्नः, तथाहि — योऽर्थोऽनुभूतः सं स्मर्यते न शेषः तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूतेऽपि विषये यदि स्मरणं भवेचतोऽननुभूतत्वाविशेषात् खरविषाणादेरपि स्मरणं भवेदित्यतिप्रसङ्गः, तथा द्रव्येन्द्रियापगमेऽपि तदुपलब्धार्थानुस्मरणादात्मोपलब्धेति स्थितम् उक्तं च - " केसिंचि इंदियाई अक्खाई तदुवलद्धि पञ्चक्खं । तन्नो ताई जमचेषणाई जाणंति न घडो व ॥ १ ॥ उवलद्धा तत्थाया तबिगमे तदुवलद्धसरणातो। गेहगवक्खोवरमेऽवि तदुवलद्धाणुसरिया वा ॥ २॥” (भा० ९१-९२) अत्र वाशब्द उपमार्थः, अपरे पुनराहुः- न वयमिन्द्रियाणामुपलब्धृत्वं प्रतिजानीमहे, किं त्वेतदेव ब्रूमो - यदिन्द्रियद्वारेण प्रवर्त्तते ज्ञानमात्मनि तत्प्रत्यक्षं न चेन्द्रियव्यापारव्यवहितत्वादात्मा साक्षान्नोपलब्धेति वक्तव्यं, इन्द्रि याणामुपलब्धि प्रति करणतया व्यवधायकत्वायोगात्, न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति व्यपदेष्टुं शक्यं, तदेतदसमीचीनं, सम्यकू वस्तुतत्त्वापरिज्ञानात्, इह हि यदाऽऽत्मा चक्षुरादिकमपेक्ष्य बाह्यमर्थमवबुध्यते तदाऽवश्यं चक्षुरादेः सागुण्याद्यपेक्षते, तथाहि यदा सद्गुणं चक्षुः तदा बाह्यमर्थ स्पष्टं यथाऽव For Private & Personal Use Only आत्मनो द्रष्टृता ॥ १४ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy