________________
Jain Education Inter
स्थितं चोपलभते यदा तु तिमिराशुभ्रमणनौयानपित्तस इक्षोभ देशदवीयस्त्वाद्यापादितविभ्रमं तदा विपरीतं संशयितं वा, ततोऽवश्यमात्मा अर्थोपलब्धौ पराधीनः तथा च सति यथा राजा निजराजदौवारिकेणोपदर्शितं परराष्ट्रराजकीयं पुरुषं पश्यन्नपि समीचीनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्येति न साक्षात् तद्वदात्माऽपि चक्षुरादिनोपदर्शितं । बाह्यमर्थं चक्षुरादिप्रत्ययत एवं समीचीनमसमीचीनं वा वेत्ति न साक्षात् तथाहि चक्षुरादिना दर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तर्हि चक्षुरादिसागुण्यमेव प्रतीत्य निश्चयं विदधाति यथा न मे चक्षुस्तिमिरोपलुतं नौयाना शुभ्रमणाद्यापादितविभ्रमं वा ततोऽयमर्थः समीचीन इति, ततो यथा राज्ञो नायं मम राजदौवारिकोऽसत्यालापी कदाचनाप्यस्य व्यभिचारानुपलम्भादिति निजदीवारिकस्य सागुण्यमवगम्य परराष्ट्र राजकीयपुरुषसमीचीनतावधारणं परमार्थतः परोक्षं तद्वदात्मनोऽपि चक्षुरादिसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणं परमार्थतः परोक्षं, नन्विदमिन्द्रियसाद्गुण्यात्रधारण तो वस्तुयाथात्म्यावधारणमनभ्या सदशामुपगतस्य, अभ्यास दशामापनस्त्यभ्यासप्रकर्ष सामर्थ्यादिन्द्रियसागुण्यमनपेक्ष्यैव साक्षादवबुद्ध्यते, ततस्तस्येन्द्रियाश्रितं ज्ञानं कथं प्रत्यक्षं न भवति ?, तदसम्यकू, अभ्यासदश । मापन्नस्यापि साक्षादनवबोधात्, तस्यापीन्द्रिय द्वारेणाव बोध प्रवृत्तेर वश्य मिन्द्रियसागुण्यापेक्षणात् केवलमभ्यासप्रकर्षवशात् तदिन्द्रियसाद्गुण्यं झटित्येवावधारयति पूर्वावधृतं वा झटित्येव विनिश्चिनोति, ततः कालसौक्ष्म्यात्तनोपलभ्यते, इत्थं चैतदङ्गीकर्त्तव्यं, यतोऽवश्यमवायज्ञानमवग्रहेहा पूर्व, ईहा च विचारणात्मिका, विचारश्चेन्द्रि यसागुण्य सद्भूत वस्तुधर्माश्रितः, अन्यथैकतर विचाराभावेऽवायज्ञानसम्यग्ज्ञानत्वायोगात्, न खल्विन्द्रिये वस्तुनि च सम्यग
For Private & Personal Use Only
w.jainelibrary.org