________________
याणि, नचायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि 'निर्वृत्त्युपकरणे द्रव्येन्द्रिय (त० अ०२ सू०१७) इति वचनात्, निर्वृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानवबोधरूपतया चैतन्य प्रति धर्मित्वायोगात, धर्मानुरूपो हिं सर्वत्रापि धर्मी यथा काठिन्य प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत् , न च भवति, तस्मादचेतनाः पुद्गलाः, उक्तं च-"बोहसहावममुत्तं विसयपरिच्छेयर्ग च चेयणं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ता धम्मधम्मिभावो कहमेएर्सि तहऽम्भुवगमे या अणुरूवत्ताभावे काठिन्नजलाण किन्न भवे ॥२॥ (धर्मसंग्रहणी) इति, नापि सन्दिग्धौनकान्तिकता हेतोः शङ्कनीया, अचेतनस्योपलम्भकत्वशक्त्ययोगाद्, उपलम्भकत्वं हि चेतनाया धर्मः, ततः स कथं तदभावे भवितुमहेति !, आह-प्रत्यक्षबाधितेयं प्रतिज्ञा, साक्षादिन्द्रियाणामुपलम्भकत्वेन प्रतीते, तथाहि-चक्षु रूपं गृहृदुपलभ्यते की शब्दं नासिका गन्धमित्यादि, तदेतन्महामोहावष्टब्धान्तःकरणताविलसितं, तथाहि-आत्मा शरीरेन्द्रियैः सहान्योऽन्यानुवेधेन व्यवस्थितः, ततोऽयमात्मा अमूनि चेन्द्रियाणि इति विवेक्तुमशक्नुवन्तो बालिशजन्तवः तत्रापि युष्मादृशां कुशास्त्रसम्पर्कतः कुवासनासङ्गमः, ततः साक्षादुपलम्भिकानीन्द्रियाणि इति प्रतिपन्नाः, परमार्थतः पुनरुपलब्धा तत्रात्मैव, कथमेतदवसीयते इति चेत्, उच्यते, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात् , तथाहि-कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृहीतवान् ततः कालान्तरे दैवविनियोगतश्चक्षुषोऽपगमेऽपि स तमर्थमनुस्मरति, तत्र यदि चक्षुरेव द्रष्ट्र स्यात् ततश्चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत्, न धात्मनाऽसौ अर्थोऽनुभूतः किन्तु चक्षुषा, चक्षुष एव साक्षात् द्रष्टुत्वेनोपगमात्, न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org