________________
उपोद्धाते
मतिश्रुत
यो परो
क्षता
ज्ञानमादेशतः सर्वद्रव्यादिविषयं तथा श्रुतज्ञानमपीति विषयसाधर्म्य, यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपीति परोक्षतासाधर्म्य, एवकारस्त्ववधारणार्थः , स च परोक्षत्वमनयोरवधारयति, आभिनिबोधिक श्रुतज्ञाने एव परोक्षे न शेष ज्ञानमिति, अथ परोक्षमिति कः शब्दार्थः ?, उच्यते 'अशु व्याप्तौ अक्षुते-ज्ञानात्मना सर्वानर्थान् व्याप्नोतीत्यक्षः, यदिवा 'अश् भोजने अनाति-सर्वानान् यथायोगं भुड़े पालयति वेत्यक्षो-जीवः, उभयत्रापि 'मावावद्यमिकमिहनिकष्यशी'त्यादिना उणादिकसप्रत्ययः, अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते, पृथग्वतन्त इति भावः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं, 'पृषोदरादय' इति रूपनिष्पत्तिः, अथवा परैः-इन्द्रिया-1 दिभिः सह उक्षा-सम्बन्धी विषयविषयिभावलक्षणो यस्मिन् ज्ञाने न तु साक्षादात्मना तत्परोक्षं, धूमादग्निज्ञानवत्, अथ कथमेतयोराभिनिबोधिक श्रुतयोः परोक्षता ?, उच्यते, पराश्रयत्वात् , तथाहि-पुद्गलमयत्वात् द्रव्येन्द्रियमनांस्यात्मनः पृथग्भूतानि ततस्तदाश्रयेणोपजायमानं ज्ञानमात्मनो न साक्षात् किन्तु परम्परयेति परोक्षता, उक्कं च 'अक्खस्स पोग्गलमया जं दबेंदियमणा परा होति । तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व ॥१॥"(भा० ९.) अत्र वैशेषिकादयः प्राहुः-नन्वक्षाणीन्द्रियाण्युच्यन्ते, 'खमक्षमिन्द्रियं प्रोक्तम् , हृषीकं करणं स्मृत'मिति वचनात्, ततोऽक्षाणांइन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्ष, अक्षं-इन्द्रियं प्रति वर्तत इति प्रत्यक्षमिति व्युत्पत्तेः, तथा च सति. सकललोकप्रसिद्ध साक्षादिन्द्रियाश्रितं घटादिज्ञानं प्रत्यक्षमिति सिद्धं, तदेतदयुक्त, इन्द्रियाणामुपलब्धृत्वासम्भवात्, तदसम्भवश्वाचेतनत्वात्, तथा चात्र प्रयोग:- यदचेतनं तन्नोपलब्धा, यथा घटः, अचेतनानि च द्रव्येन्द्रि
॥
lain Education Inter
For Private & Personal use only
"www.jainelibrary.org