SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ SECSCIEOSACROSAROKES शब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिभ्य इत्यनेन स्वार्थे इकण, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवच-10 नानीति वचनादत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यते अनेनास्मादस्मिन्वेति अभिनिबोध:-तदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिबोधिक, आभिनिबोधिकं च तत् ज्ञानं च आभिनिबोधिकज्ञानं-इन्द्रि यमनोनिमित्तो योग्यदेशांवस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः, तथा श्रवणं श्रुतं-वाच्यवाचकभावपुदा रस्सरीकारेण शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यमित्या|दिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, || श्रुतं चतत् ज्ञानं च श्रुतज्ञानं, अथवा श्रूयतेऽनेन अस्मात् अस्मिन् वेति श्रुतं-तदावरणकर्मक्षयोपशम:, 'कृद्बहुल मिति दावचनात् करणादावपि कप्रत्ययः, तजनितं ज्ञानमपि श्रुतं, कार्ये कारणोपचारात्, शृणोतीति वा श्रुतं-आत्मा तदनन्य त्वात् ज्ञानमपि श्रुतं, श्रुतं च तत् ज्ञानं चेति समासः, चशब्दस्त्वनयोः स्वामिकाल कारणविषयपरोक्षत्वसाधम्यात्तुल्यकक्ष-11 सातोद्भावनाः , तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि, 'जत्थ मइनाणं तत्थ सुयनाणं जत्थ सुयनाणं|| तत्थ मइनाण'मिति वचनात्, ततः स्वामिसाधर्म्य, तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि, तत्र प्रवाहापेक्षया अतीतानागतवर्चमानरूपः सर्व एव कालः अप्रतिपतितकजीवापेक्षया तु षट्पष्टिसागरोपमाणि समधिकानि, उक्तंच-"दो वारे विजयाइसु गयस्स तिन्निए अहव ताई। अइरेगं नरभवियं नाणाजीवाण सबद्धा ॥१॥" (भा०२७६२) इति कालसाधम्ये, यथा च इन्द्रियानिन्द्रियनिमित्तं मतिजानं तथा श्रुतज्ञानमपीति कारणसाधम्ये, तथा यथा मति SROSAGAR-कर मा.सू.३ Jain Education intem For Private & Personal Use Only 2jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy