________________
उपोद्धा
॥ १२ ॥
Jain Education inte
कीर्त्यादिभ्य' इति इप्रत्ययः, असावपि मङ्गलवच्चतुर्भेदः, तद्यथा-नामनन्दिः स्थापनानन्दिः द्रव्यनन्दिः भावनन्दिश्च, तत्र यस्य जीवस्याजीवस्य वा नन्दिशब्दान्वर्थरहितस्य नन्दिरिति नाम क्रियते स नाम्ना नन्दिर्नामनन्दिः यद्वा नामनामवतोरभेदोपचारान्नाम चासौ नन्दिश्च नामनन्दिः, नन्दिरिति नाम वा नामनन्दिः, तथा सद्भावमाश्रित्य लेप्यकमदिष्वसद्भावं चाश्रित्याक्षवराटकादिषु भावनन्दिमतः साध्वादेः स्थापना सा स्थापनानन्दिः, अथवा द्वादशविधतूर्यरूप| द्रव्यनन्दिस्थापना स्थापनानन्दिः, द्रव्यनन्दिर्द्विधा - आगमतो नोआगमतश्च तत्र आगमतो नन्दिपदार्थस्य ज्ञाता तत्र चानु|पयुक्तः, 'अनुपयोगो द्रव्य 'मिति वचनात्, नोआगमतस्तु त्रिधा, तद्यथा-ज्ञशरीरद्रव्यनन्दिः भव्यशरीरद्रव्यनन्दिज्ञेशरीरभव्यशरीरव्यतिरिक्तद्रव्यनन्दिश्च तत्र यन्नन्दिपदार्थज्ञस्यापगतजीवितस्य शरीरं सिद्धिशिलातलादिगतं वद्भूतभावनया ज्ञशरीरद्रव्यनन्दिः, यस्तु बालको नेदानीं नन्दिशब्दार्थमवबुध्यते अथचावश्यमायत्यां तेनैव शरीरसमुच्छ्रयेण भोत्स्यते स भाविभावनिबन्धनत्वात् भव्यशरीरद्रव्यनन्दिः, ज्ञशरीरभव्यशरीरव्यतिरिक्ता तु द्रव्यनन्दी द्वादशप्रकारस्वर्यसङ्घातः, स चायं - "भम्भामकुन्दमद्द लकडम्बझल्लरिहुडुक्ककंसाला । काहलि तलिमा वंसों संखो पणवो य धारसमो ॥ १ ॥" (बृ. भा० ) भावनन्दिर्द्विधा - आगमतो नोआगमतश्च तत्रागम्तो नन्दिपदार्थस्य ज्ञाता तत्र चोपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं तच्चेदम्
आभिणिवोहियनाणं सुयनाणं चेव ओहिनाणं च । तद् मणपज्जवनाणं केवलनाणं च पंचमयं ॥ १ ॥ आ - अर्थाभिमुखो नियतः - प्रतिनियतस्वरूपो बोधः - बोधविशेषोऽभिनिबोधोऽभिनिंबोध एवाभिनिबोधिकं, अभिनिबोध
For Private & Personal Use Only
नन्देः शब्दार्थः
॥ १२ ॥
www.jainelibrary.org