SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ CRO RERECASSES दिन:-"सङ्गहविसेससहविसेसपत्यारमूलवागरणी । दवडिओ य पजवनओ य सेसा वियपा सिं ॥१॥" [संग्रहविशेषाणां । संग्रहविशेषप्रस्तारमूलव्याकरणिनौ। द्रव्यार्थिकश्च पर्यायार्थिकश्च शेषा विकल्पा अनयो: तत्र नामादिचतुष्टयमध्ये कस्य किंसम्मतमिति निरुच्यतां , उच्यते, नामस्थापनाद्रव्याणि द्रव्यास्तिकनयस्य भावः पर्यायास्तिकनयस्य, कथमिति चेत्, उच्यते, इह सिद्धसेनीयास्तावदेवमाहुः-'सामान्यग्राही नैगमः सङ्ग्रहेऽन्तर्भूतो विशेषग्राही व्यवहारे' इति षडेव तत्त्वतो नया, तत्र सत्रहो व्यवहारश्च द्रव्यास्तिकनयो द्रव्याभ्युपगमपरत्वाद्, अतस्तस्य नामादित्रितयमभिमतं, एतावांस्तु विशेष:-सामान्याभ्युपगमपरत्वात् यानि कानिचिन्नाममङ्गलानि तानि सर्वाणि एक नाममङ्गलं सर्वाणि स्थापनामङ्गलान्येकं स्थापनामङ्गलं सर्वाणि द्रव्यमङ्गलान्येकं द्रव्यमङ्गलं, व्यवहारस्तु विशेषग्राहीति नाममङ्गलानि प्रत्येकं भिन्नानीच्छति, एवं स्थापनामङ्गलानि द्रव्यमङ्गलानि चेति, ऋजुसूत्रशब्दसमभिरूद्वैवंभूतास्तु पर्यायाभ्युपगमपरत्वात् पर्यायास्तिकनयः, ततस्तस्य भावः सम्मतः, उक्तं च-"नामाइतियं दबट्टियस्स भावो उ पजवनयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स ॥१॥"(भा०७५) सूत्राभिप्रायेण तु ऋजुसूत्रोऽप्यविशुद्धो द्रव्यास्तिकनयस्तस्यापि द्रव्याभ्युपगमात् , तथा चानुयोगद्वारसूत्रम्-"उजुस्सुयस्स एगो अणुवउत्तो आगमतो एगं दवावस्सयं, पुहुत्तं नेच्छाई' इति, तदेवमुक्त प्रासङ्गिकं, अधुना प्रकृतमुच्यते-तत्र नोआगमतो भावमङ्गलमनेकप्रकारमुक्तं, अथवा नोआगमतो भावमङ्गलं नन्दी, अथ नन्दीति कः शब्दार्थः १, उच्यते, 'दुनदु समृद्धा' वित्यस्य धातोः 'उदित' इति नमि विहिते नन्दनं नन्दिः, प्रमादो हर्ष इत्यनान्तरं, नन्दिहेतुत्वात् ज्ञानपञ्चकादिकमपि नन्दिः, अथवा नन्दन्ति प्राणिनोऽनेनास्मिन् वेति नन्दिः, 'पदिपटि Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy