________________
परिपूर्ण शतं पद्मप्रभस्य सवाधिक शतं सुपार्श्वस्य पञ्चनवतिः चन्द्रप्रभस्य त्रिनवतिः सुविधिस्वामिनोऽष्टाशीतिः लस्य एकाशीतिः श्रेयांसस्य षट्सप्ततिः वासुपूज्यस्य षट्षष्टिः विमलस्य सप्तपश्चाशत् अनन्तजित: पञ्चाशत् धर्मस्य त्रिचत्वारिंशत् शान्तिनाथस्य पत्रिंशत् कुन्थुनाथस्य पञ्चत्रिंशत् अरजिनस्य त्रयस्त्रिंशत् मल्लिस्वामिनोऽष्टाविंशतिः मुनिसुव्रतस्वामिनोऽष्टादश नमिनाथस्य सप्तदश अरिष्ठनेमेरेकादश पार्श्वनाथस्य दश वर्द्धमानस्वामिनो नव, एतत् जिनेन्द्राणाम्-ऋषभादीनां जिनानां यथाक्रमं गणानां मान-परिमाणं ॥ सम्प्रति गणधरप्रतिपादनार्थमाह- .
एकारस उ गणहरा वीरजिणिंदस्स सेसयाणं तु । जावइया जस्स गणा तावइया गणधरा तस्स ॥ २९१ ।। MI गणधरा नाम मूलसूत्रकतारः, ते च वीरजिनस्य एकादश, गणास्तु नव, द्वयोर्युगलयोरेकैकवाचनाचारक्रियास्थत्वात्, ४. शेषाणां तु जिनवरेन्द्राणां यस्य यावन्तो गणास्तस्य तावन्तो गणधराः, प्रतिगणधरं भिन्नभिन्नवाचनाचारक्रियास्थत्वात् ।।
गतं गणधरद्वारम् , इदानीं धर्मोपायस्य देशका इत्येतद्व्याचिख्यासुराह* धम्मोवाओ पवयणमहवा पुवाइं देसया तस्स । सवजिणाण गणहरा चोदसपुवी उ ते तस्स ।। २९२॥
धर्मोपायो नाम प्रवचनं, तदन्तरेण धर्मस्यासम्भवात् , अथवा पूर्वाणि, तस्य-धर्मोपायस्य देशकाः सर्वजिनानां । गणघराः, तेषां मूलसूत्रकर्तृत्वात् , अथवा ये यस्य तीर्थकृतश्चतुर्दशपूर्विणस्ते धर्मोपायस्य देशकाः, परिपूर्णश्रुततया तेषां यथावस्थितवस्तुदेशकत्वात् ॥ सामाइयाइया या वयजीवनिकायभावणा पढमं । एसो पम्मोवादो जिणेहिं सहिं उवाट्टो ॥ २९३ ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org