________________
भगवत ऋषभस्वामिनश्चतुरशीतिसहस्राणि श्रमणानाम्, एक लक्षमजितस्य द्वेलक्षे सम्भवनाथस्य त्रीणि लक्षाण्यभिनन्दनस्य सुमतेः त्रीणि लक्षाणि विंशतिसहस्राभ्यधिकानि पद्मप्रभस्य त्रीणि त्रिंशत्सहस्राधिकानि सुपार्श्वस्य त्रीणि लक्षाणि चन्द्रप्रभस्य अर्द्धतृतीयानि लक्षाणि सुविधेर्दै लक्षे शीतलस्य एक लक्षं श्रेयांसस्य चतुरशीतिः श्रमणानां सहस्राणि वासुपूज्यस्य द्वासप्ततिः सहस्राणि विमलस्य अष्टषष्टिः सहस्राणि अनन्तजिनस्य षट्षष्टिः सहस्राणि धर्मनाथस्य चतुःषष्टिःसह
साणि शान्तिनाथस्य द्वाषष्टिः सहस्राणि कुन्थुनाथस्य पष्टिः सहस्राणि अरनाथस्य पञ्चाशत्सहस्राणि मल्लिनाथस्य चत्वारिंश*त्सहस्राणि मुनिसुव्रतस्वामिनस्त्रिंशत्सहस्राणि नमिस्वामिनो विंशतिसहस्राणि अरिष्ठनेमेरष्टादश सहस्राणि पार्श्वनाथस्य
षोडश सहस्राणि भगवतो महावीरस्य चतुर्दश सहस्राणि, एतद्यतिशिष्यसङ्ग्रहप्रमाणं जिनानाम्-ऋषभादीनां यथाक्रममवसातव्यं, तच्च तथैव भावितम् ॥अत ऊर्ध्वमार्यासङ्ग्रहप्रमाणमृपभादीनां जिनानां क्रमेण वक्ष्ये । प्रतिज्ञातमेव निर्वाहयतितिण्णेव य लक्खाई तिनि यतीसाई तिन्नि छत्तीसा। तीसा य छच्च पंच य तीसा चउरो य वीसाइं ॥२८२॥ चत्तारि य तीसाई असीउत्तरतिणि तिणिमित्तो या वीसुत्तरं छलहियं तिसहस्साहियं च लक्खं च ॥२८॥ लक्खं अट्ठसयाणि य वासद्विसहस्स चउसय समग्गा। एगट्टी उच्च सया सद्विसहस्सा सया छच ॥ २८४॥ सहि पणपन्न पन्नेगचत्त चत्ता तहऽद्वतीसं च । छत्तीसं च सहस्सा अजाणं संगहो एसो ॥ २८५॥
भगवत आदितीर्थकरस्यार्यिकाणां त्रीगि लक्षा अजितस्वामिनस्त्रीणि लक्षाणि त्रिंशानि-त्रिंशत्सहस्राभ्यधिकानि सम्भवनाथस्य त्रीणि लक्षाणि पत्रिंशत्सहस्राभ्यधिकानि अभिनन्दनस्य लक्षाणि षट् त्रिंशानि-त्रिंशत्सहस्राभ्यधिकानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org