________________
CSCIKARAN
उदिताः परीपहा:-शीतोष्णादयः एषां-भगवतां तीर्थकृतां, परं ते परीषहाः सर्वैरपि जिनवरेन्द्रः पराजिताः ।गतं परीपहद्वारम् ॥ अधुना जीवोपलम्भद्वारमाह-नव जीबाई'इत्यादि, नव जीवादीन् आदिशब्दादजीवात्रवबन्धसंवरपु. ण्यपापनिर्जरामोक्षपरिग्रहः पदार्थानुपलभ्य सर्वे निष्क्रान्ताः॥ गतं जीवोपलम्भद्वारम्, इदानीं श्रुतलाभादिद्वाराणि प्रतिपादयति
पढमस्स बारसंग सेसाणिकारसंगसुयलंभो।पंच जमा पढमंतिमजिणाण सेसाण चत्तारि ॥२५८॥ पचक्खाणमिणं संजमो य पढमंतिमाण दुविगप्पो । सेसाणं सामइतो सत्तरसंगो असोसि ॥ २५९॥
प्रथमस्य-भगवत ऋषभस्वामिनः पूर्वभवे श्रुतलाभः परिपूर्ण द्वादशाङ्गम् ,अवशेषाणाम्-अजितस्वामिप्रभृतीनामेकादशाङ्गानि, यस्य च यावान् पूर्वभवे श्रुतलाभः तस्य तावान् तीर्थकरजन्मन्यपि अनुवर्तते, गतं श्रुतलाभद्वारम् ॥ अधुना
प्रत्याख्यानद्वारमाह-प्रथमजिनस्य-ऋषभस्वामिनोऽन्तिमजिनस्य-वर्द्धमानस्वामिन इदं प्रत्याख्यानं, यदुत पञ्च दायमा:-प्राणातिपातनिवृत्त्यादीनि पञ्च महाव्रतानि, शेषाणाम्-अजितस्वामिप्रभृतीनां मध्यमानां द्वाविंशतितीर्थकृतां
चत्वारो यमाः, मैथुनप्रतवर्जाणि शेषाणि चत्वारि महाव्रतानीत्यर्थः, तेषां मैथुनस्य परिग्रहेऽन्तर्भावविवक्षणात्, नापरिगृहीता स्त्री परिमुज्यते इति न्यायात्, संयमोऽपि-सामायिकादिरूपः प्रथमान्तिमजिनयोति विकल्पः, इत्वरं सामायिक छेदोपस्थापनीयं चेत्यर्थः, शेषाणां-मध्यमानां द्वाविंशतितीर्थकृतां यावत्कथिकमेवैकं सामायिकं, न शेष छेदोपस्थापनादि, तथाकल्पत्वाद, सप्तदशाङ्ग:-सप्तदशमेदःपुनः, चः पुनरर्थे, सर्वेषां तीर्थकृतामभूत्, तेच सप्तदश मेदा अमी
4%AC%ACHAR
Jain Education International
For Private & Personal use only
www.jainelibrary.org