________________
पूज्यो जिनश्चतुर्थेन, एकेनोपवासेनेत्यर्थः, पार्श्वनाथो मल्लिरपि चाष्टमेन-त्रिभिरुपवासैः, शेषास्तु ऋषभस्वामिप्रभृतयः नाषष्ठेन-द्वाभ्यामुपवासाभ्यां निष्क्रान्ताः ॥ साम्प्रतमस्मिन्नेव निर्गमप्रस्तावे यो यत्र नगरे यत्र चोद्यानादौ निष्कान्तस्तदेत-1 दभिषित्सुराह- .
उसभो य विणीयाए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु॥२५१॥
ऋषभः-ऋपभस्वामी भगवान् विनीतायां नगर्या निष्क्रान्तः, द्वारवत्यां अरिष्टनेमिः, अवशेषा-अजितस्वामिप्रभृतयदस्तीर्थकरा निष्क्रान्ता जन्मभूमिषु, यत्र जातास्तत्र निष्क्रान्ता इति भावः॥
उसभो सिद्धत्थवर्णमि वासुपुज्जो विहारगिहगंमि । धम्मो य वप्पगाए नीलगुहाए मुणी नाम ॥ २५२॥ आसमपयंमि पासो वीरजिणिंदो य नायसंडंमि । अवसेसा पवइया (निक्खंता) सहसंबवणंमि उजाणे ॥२५॥
ऋषभः-ऋषभस्वामी सिद्धार्थवने उद्याने निष्क्रान्तः, वासुपूज्यो विहारगृहके-विहारगृहकाभिधाने उद्याने, धम्मो-धम्मस्वामी भगवान् वप्रगायां-वप्रगाभिधाने उद्याने, तथा च वक्ष्यति-'सेसाण केवलाई जेसुजाणेसु पवइया' एवं नीलगु. फायां-नीलगुफाभिधाने उद्याने मुनिनामा-मुनिसुव्रतनामा तीर्थकरो निष्क्रान्तः, तथा आश्रमपदे-आश्रमपदाभिधान उद्याने पार्श्वनाथो निष्क्रान्तः, वीरजिनेन्द्रो ज्ञातखण्डाभिधाने उद्याने, अवशेषाः-अजितस्वामिप्रभृतयस्तीर्थकराः सहस्राघवने निष्क्रान्ताः॥ इदानी प्रसङ्गत एव निर्गमनकालं प्रतिपादयन्नाह-' पासो अरिहनेमी सेज्जंसो सुमति मल्लिनामोय। पुत्वण्हे निक्खता सेसा पुण पच्छिमण्हमि ॥२४॥
आ.सू.३५
Jain Education
tema
O
For Private & Personal use only
jainelibrary.org