________________
*
एए देवनिकाया भयवं बोहिंति जिणवरिंदं तु । सधजगजीवहियं भयवं ! तित्थं पवत्तेहि ॥ २३७॥ एते देवनिकायाः-सारस्वतादयः स्वयं सम्बुद्धमपि भगवन्तं जिनवरेन्द्रं कल्प इतिकृत्वा बोधयन्ति, कथमित्याहसर्वे च ते जगजीवाश्च सर्वजगज्जीवास्तेभ्यो हितं हे भगवन् ! तीर्थ प्रवर्तयस्वेति ॥ उक्तं सम्बोधनद्वारम् , इदानी परित्यागद्वारमाह
संवच्छरेण होही अभिनिक्खमणं तु जिणवरिंदाणं । ता अत्थसंपयाणं पवत्तए पुषसूरंमि ॥ २३८॥ संवत्सरेण जिनवरेन्द्राणामभिनिष्क्रमणं भविष्यति. ततोऽर्थसम्प्रदानम्-अर्थस्य सम्यक-तीर्थप्रभावनाबुस्सा अनुकम्पाबुद्ध्या च, न तु कीर्तिबुद्ध्या, संप्रदानं जनेभ्यः प्रवर्त्तते, पूर्वसूर्ये-पूर्वाहे इत्यर्थः॥कियत् प्रतिदिवसं दीयते इत्याह
एगा हिरणकोडी अटेव अणूणगा सयसहस्सा । सरोदयमाईयं दिजइ जा पायरासाओ ॥ २३९ ॥ एका हिरण्यस्य कोटी अष्टौ चान्यूनानि-परिपूर्णानि शतसहस्राणि-लक्षाणि इति प्रतिदिवसं दीयते, कथं दीयते इत्याहसूर्योदय आदौ यस्य दानस्य तत् सूर्योदयादि, क्रियाविशेषणमेतत , सूर्योदयादारभ्य दीयते इति भावः, कियन्तं कालं| यावदित्याह-प्रातराशा' प्रातः अशनमाशः प्रातराशः तस्मात.तमभिव्याप्य, प्रातभोजनकालं यावदिति भावः । यथारी दीयते तथा प्रतिपादयन्नाह
सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसुं। दारेसु पुरवराणं रत्थामुहमज्झकारेसु ।। २४०॥ शृङ्गाटकं नाम शृङ्गाटकाकृतिपथयुक्तं, त्रिकोणं स्थानं वा, त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्कं-चतुष्पथसमाहारः,
सा। सूरावाणि इतिप्रति
* ACANCHARACK
RAAGRAAKAKARMAA%
इति भावः ।
Jain Education Inter
For Private & Personal use only
wjainelibrary.org