SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ FokCE%% कियत्परिवारो निष्कान्त इति वाच्यं, तथा 'उपधा'बिति उपधिविषयो विधिर्वक्तव्यः, यथाका केनोपधिरासेवितःकोवा विनेयानामनुज्ञातः? इति, इह यत्साधूनां लिङ्गं यच्च गृहस्थानां तद्भगवतां तीर्थकृतामन्यलिङ्ग, कुत्सितं लिंगं कुलिंगं तापसपरिवाजकादिलिङ्गं, तत्र भगवन्तो नान्यलिङ्गे निष्क्रान्ताः, नापि कुलिने, किन्तु तीर्थकरलिने एवेति वक्तव्यं, तथा ग्रामाचाराविषयाः परीषहा:-क्षुत्पिपासादयः, ग्रामाचाराश्च परीषहाश्च ग्रामाचारपरीपहं तस्मिन् विधिर्वक्तव्यः, यथा कुमारप्रव्रजितैविषया न भुक्ताः, शेषेभुक्ताः, तथा परीषहाः सर्वैरेव निर्जिता इति, तथा जीवोपलम्भो-जीवग्रहणमुपलक्षणं जीवाजीवाद्युपलम्भो वक्तव्यः, तथा पूर्वभवे यस्य यावान् श्रुतलाभःस वक्तव्यः, प्रथमान्तस्याप्येकारान्तता सूत्रे प्राकृतत्वात् , तथा प्रत्याख्यानं महाव्रतरूपं वक्तव्यं, तस्य किं प्रमाणमासीदिति, तथा संयमः-सामायिकादिरूपो वक्तव्यः, कस्य किं सामायि| कादि चारित्रमासीदिति, तथा छादयतीति छद्म-ज्ञानावरणीयादिधातिकर्मचतुष्टयं छद्मनि तिष्ठतीति छद्मस्था, ककियन्तं कालं छद्मस्थ आसीदिति वक्तव्यं, तथा किं कस्य तपःकर्मेति वक्तव्यं, तथा 'उप्पया नाणेति ज्ञानोत्पादो वक्तव्यः, कस्य कस्मिन्नहनि केवलज्ञानमुत्पन्नमिति, तथा सङ्घहो वक्तव्यः, कस्य कियान् शिष्यादिसङ्ग्रहः, तथा 'तीर्थमिति कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यं, तीर्थ नाम चातुवर्णः श्रमणसङ्घः, गणः-एकवाचनाचारक्रियास्थानां समुदायो, न कुलसमुदायः, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यं, तथा गणधराः-सूत्रकर्तारः, तेच कस्य किय न्त इति वक्तव्यं, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योपायो-द्वादशाङ्गं प्रवचनमथवा पूर्वाणि देशय-21 दम्तीति देशकाः धर्मोपायस्य देशका गणधरा अथवा अन्येऽपि यस्य यावन्तश्चतु ईशपूर्वविदः, तथा पर्याय इति । CR-CHAMAK. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy