SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ CAMERACCXRec-kx च प्रथम त्रिदशैः कृतः पश्चाल्लोकेऽपि सञ्जातः, तथा भगवद्देहादिदग्धस्थानेषु भरतेन स्तूपाः कृताः, ततो लोकेऽपि तत आरभ्य मृतकदाहस्थानेषु स्तूपाः प्रावतेंन्त, तथा शब्दो नाम रुदितशब्दः, स च भगवत्यपवर्ग गते भरतदुःखमसाधारणमवबुध्य तदपसरणाय शक्रेण कृतः, ततो लोकेऽपि ततः कालादारभ्य रुदितशब्दः प्रवृत्तः, तथा चाह-लोकोऽपि तथा-भरतवत् शक्रवद्वा रुदितशब्दं प्रकृत:-कत्तुंमारब्धवान् ॥ सम्प्रति च्छेलापनकद्वारं पृच्छाद्वारं चाह छेलावणमुक्किट्ठाइ बालकीलावणं च सेंटाई। इंखिणियादिस्यं वा पुच्छा पुण किं कहिं कजं ॥२२७॥ अहव निमित्ताईणं सुहसइयाइ सुहदुक्खपुच्छा वा । इच्चेवमाइयाए उप्पन्नं उसमकालम्मि ॥ २२८ ॥ । छेलापनकमिति देशीवचनं, तच्चानेकार्थ, तथा चाह-'उक्किट्ठाई'इत्यादि, उत्कृष्टि म हर्षवशादुत्कर्षेण नदनम् , आदि-18 शब्दात् सिंहनादादिपरिग्रहः, यदिवा बालक्रीडापनं छेलापनकं, अथवा शेण्टितादि। तथा प्रच्छन्नं पृच्छा, सा इजिणिकाहै दिरुतलक्षणा, इंखिणिका हि कर्णमूले घण्टिकांचालयन्ति, ततो यक्षाः खल्वागम्य तासां कर्णेषु किमपि प्रष्टुर्विवक्षितं कथयन्ति, आदिशब्दात् इङ्खिणिकासदृशपरिग्रहः, अथवा किं कार्य ? कथं वा कार्यमित्येवंलक्षणा या लोके प्रसिद्धा पृच्छा सा पृच्छइना, यदिवा निमित्तादीनामादिशब्दात्स्वमफलादिपरिग्रहः पृच्छा-पृच्छना, अथवा सुखशयितादिरूपा सुखदुःखपृच्छना इत्येवं आदितया सर्वमुत्पन्नमृषभस्वामिकाले, उपलक्षणमेतत्, किञ्चिद्भरतकाले किञ्चित्कुलकरकाले च ॥ तथा चाहकिंचिच्च भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं । पहणा उ देसियाई सबकलासिप्पकम्माई ॥२२९॥ किञ्चित्-निगडादिभिर्घात इत्यादि भरतकाल उत्पन्नं, किश्चित्-हक्कारादि कुलकरकालेऽप्युत्पन्नं, प्रभुणा तु-भगवता Jain Education Intem For Private & Personal use only ( Mainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy