SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ हस्ताभ्यां धृष्ट्वा पत्रपुटेषु तीमित्वालाई सणतिम्मपवाले हत्या वालपुटे तदनन्तरं कृत्वा । AASA%AGASANASAK तीमित्वा हस्तपुटेषु मुहूर्त धृत्वा कक्षासु स्वेदयित्वा स प्राग्वदसमीचीनः समीचीनो वा वेदितव्यः, चतुष्कसंयोगे एक एव भङ्गः, हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु धृत्वा कक्षासु स्वेदयित्वा इति ॥ अमुमेवार्थमुपसंहरन्नाह- घंसेऊणं तिम्मण घसणतिम्मणपवालपुडभोई।घसणतिम्मपवाले हत्थउडे कक्खसेए य॥ २०७॥ अस्या भावार्थ उक्त एव, नवरमियमुक्तार्थविषया अक्षरयोजना-घृष्टा भुक्तवन्तः, तीमनं प्रवालपुटे तदनन्तरं कृत्वा भुक्तवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतः, तथा हस्ताभ्यां घर्षणं कृत्वा तीमनं च प्रवालपुटे ततो भोजिन इत्यनेन समस्तद्विकसंयोगभङ्गकाक्षेपः, तथा घर्षणं हस्ताभ्यां तीमनं प्रवालपुटे तदनन्तरं मुहूर्त हस्तपुटे करणं कृत्वा भुक्तवन्त इत्यनेन समस्तत्रिकसंयोगभङ्गकाक्षेपः, 'कक्खसेए य' इति अत्र चशब्दो घर्षणादिसमुच्चयार्थः, ततोऽयमर्थ:हस्ताभ्यां घर्षणे प्रवालपुटे तीमने हस्तपुटे च कियन्तं कालं धरणे तदनन्तरं च कक्षास्वेदे कृते सति भुक्तवन्तः, एतेन चतुष्कसंयोगभङ्गकोऽभिहितः॥ अत्रान्तरेअगणिस्स य उहाणं वणघंसा दट्ट भीय परिकहणं । पासेसं परिछिंदह गेण्हह पागं ततो कुणह ॥ २०८॥18 ननु ते मिथुनकाः सर्व तीमनादि भगवत्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः ततः किमित्यग्युत्पादोपदेशं नं दत्तवान् !, उच्यते, तदा कालस्य एकान्तस्निग्धतया सत्यपि यत्ने वयुत्पादाभावात् , भगवांस्तु विजानातिन एकान्तस्निग्धरूक्षयोः कालयोङ्युत्पादः, किन्तु विमात्रया स्निग्धरूक्षकाले, ततो नादिष्टवानिति । ते च मिथुनका यदा चतुर्थभङ्गविकल्पितमप्याहारं काल दोषान्न जीर्णवन्तस्तदा अस्मिन् प्रस्तावे कालस्य निग्धरूक्षत्वाने दुमाणां पर Jain Education Intem For Private & Personal use only Xdjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy