________________
स्पोदातनियुक्तिः
॥१९६॥
AHMEDIAS
पर्णित्वा त्वचं चापनीय भुक्तवन्त इति, एवमपि कालदोषात् कियत्यपि काले गते ता अपि न जीर्णवन्तः, ततः पुनरपि ।
आहारभगवन्तमापृच्छय तदुपदेशात्तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमितान् तन्दुलान् प्रवालपुटे-पत्रपुटे मुहूर्त धृत्वा है।
द्वारं मुञ्जत इत्येवंशीलास्तीमिततन्दुलप्रवालपुटभोजिनः, तन्दुलग्रहणमशेषौषध्युपलक्षणम् , एवमपि कियति काले अतिक्रान्ते शाल्याद्यौषधयः कठिनभावतो न जीर्यन्तीति भूयोऽपि भगवन्तं पृष्ट्वा तदुपदेशेन हस्ततलपुटाहारा आसीरन्, हस्त. तलपुटेषु निहित आहारो यैस्ते तथाविधाः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वा भुक्तवन्त इत्यर्थः, एव-14 मपि गच्छता कालेन कालदोषात् औषध्यः कठिनतरभावमापन्ना न जीर्यन्ति, ततो भगवदुपदेशेन कक्षासु स्वेदयित्वा । भुक्तवन्तः, एतच्चानुक्तमपि व्याख्यानादवसीयते, तथा मूलटीकाकृता व्याख्यानाद्, एवंभूताश्च ते मिथुनका आसन् |
यदा ऋषभः कुलकरस्तदेति, तदनन्तरमभिहितप्रकारयादिसंयोगैराहारितवन्तः,तद्यथा-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त | ६ तीमित्वा, तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त धृत्वा, तथा हस्ताभ्यां घृष्ट्वा कक्षास्वेदं च कृत्वा, एते त्रयो भङ्गका है द्विकसंयोगे, परिघृष्टपदं मुक्त्वा तीमित्वा हस्तपुटेषु च मुहूत्रै धृत्वा इत्यादिकामपि भङ्गयोजनामुपदर्शयन्ति केचित्,
तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटे कृतस्य सौकुमार्यानुपपत्तेः, यदिवा श्लक्ष्णत्वग्भावाददोष इति, ॥१९६॥ ६ त्रिकसंयोगेऽपि त्रयो भङ्गा हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु मुहूर्त धृत्वा १ हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा
कक्षासु स्वेदयित्वा २ तथा हस्ताभ्यां धृष्टदा हस्तपुटेषु धृत्वा कक्षासु स्वेदयित्वा ३ इति, यस्तु घृष्टपदं विहाय पत्रपुटेषु ।
+%A4%AA%CACA
JainEducation intes
For Private & Personal use only
How.jainelibrary.org