SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ विधक्रियोपेतान् दृष्ट्वा वज्रपाणिर्देवराजोऽचिन्तयत्-अहो ! खलु विनीता एते पुरुषास्ततोऽत्र विनीता नगरी भवतु, ततो वैश्रमणं यक्षराजमाज्ञापितवान्-इह द्वादशयोजनदीपो नवयोजनविष्कम्भां विनीतां नाम नगरी निष्पादयति, स चाज्ञासमनन्तरमेव दिव्यप्राकारभवनमालोपशोभितां नगरौं चकार, एतदेवाहभिसिणीपत्तेहियरे उदयं घेत्तुं छहंति पाएस। साह विणीया पुरिसा, विणीयनयरी अह निविट्ठा ॥१९६।। बिसिनीपत्रैः-पद्मिनीपौरितरे-मिथुनकनरा उदकं गृहीत्वा छुभति-प्रक्षिपन्ति भगवत्पादयोरुपरि, ततो देवराजोऽभिहितवान्-साधु विनीताः पुरुषा इति, ततः शक्रादेशादथ-अथानन्तरं वैश्रमणयक्षेण विनीताभिधाना नगरी निविष्टाअन्तर्भूतण्यर्थत्वान्निवेशिता ॥गतमभिषेकद्वारम्, इदानीं राज्यसङ्ग्रहद्वारमाह आसा हत्थी गावो गहियाई रजसंग्गहनिमित्तं घेतण एवमाई चउविहं संगहं कुणइ ॥ १९७॥ । अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा भगवता गृहीतानि, राज्ये-राज्यविषयः सङ्ग्रहो राज्यसङ्ग्रहः तन्निमि-14 चम् , अश्वादिग्रहणं चोष्ट्राद्युपलक्षणं, तथा चाह-एवमादि चतुष्पदजातमसौ भगवान् गृहीत्वा चतुर्विघ-वक्ष्यमाणलक्षणं सङ्ग्रहं करोति, वर्तमाननिर्देशप्रयोजनं सर्वत्रापि पूर्ववत, पाठान्तरं वा 'चउविहं संगहं कासि' ।। अथ कोऽसौ चतुर्विधः सह इत्याहउग्गा भोगा रायण खत्तिया संगहो भवे चउहा। आरक्खगरुवयंसा सेसा जे खत्तिया ते उ ॥१९८॥ उग्रा भोगा राजन्याः क्षत्रिया एष चतुर्की भवति सङ्कहः, एतेषामेव यथाक्रमं स्वरूपमाह-आरक्षका उपदण्डका 40.94MACAMAKRAMA Jain Education Inten For Private & Personal use only IMiw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy