________________
AMREMO
राज्यद्वार
R
S
क्रमणीयाज्ञश्च भवति, एवं भगवता शिष्टे-कथिते सति ते-मिथुनका ब्रुवते-अस्माकमपि सः-राजा भवतु, वर्तमानकाउपोद्धातनियुक्तिः
लनिर्देशः खल्वन्यास्वप्यवसर्पिणीषु प्राय एष एवं न्याय इति प्रदर्शनार्थः, सूत्रस्य त्रिकालगोचरत्वात् , अथवा प्राकृ
तत्वादापत्वाद्वा'बेति'त्ति उक्तवन्तः, भगवानाह-यद्येवं 'मग्गह य कुलगरं ति मार्गयत-याचचं कुलकर-नाभिकुलकरं ॥१९४॥ राजानं, ततस्तैर्याचितो नाभिकुलकरो, राजानं याचितश्च सन् स 'ते' उक्तवान्-अहं महान् जातः ऋषभो भवतां
राजेति, ततस्ते मिथुनका राज्याभिषेककरणाथै उदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तरे देवराजस्य वज्रपाणेरासनप्रकम्पो वभूव, ततोऽवधिना विज्ञाय सर्वा सलोकपालः शक्रः समागत्य राज्याभिषेकं कृतवान् ॥ अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्नाह* आभोएवं सको उवागतो तस्स कुणइ अभिसेयं । मउडाइ अलंकारं नरिंदजोगं च से कुणइ ॥१९५॥ ___ आसनप्रकम्पानन्तरं आभोग्य-अवधिज्ञानेन सम्यग्वस्तुगतिमवगम्य शक्रो-देवराज उपागतस्तस्य-भगवतः ऋषभस्वा
मिनोऽमिषेक-राज्याभिषेकं करोति, तथा मुकुटादि आदिशब्दात् कटककुण्डलकेयूरादिपरिग्रहः नरेन्द्रयोग्यं-नरेश्वरपददिव्युचितमलङ्कारं 'से' तस्य भगवतः करोति, अत्रापि वर्तमानकालनिर्देशप्रयोजनं प्राग्वद् भावनीयं, पाठान्तरं वा
"आभोएउं सक्को उवागतो तस्स कासि अभिसेयं । मउडाइ अलंकारं नरिंदजोगं च से कासि ॥" अत्रान्तरे ते मिथुन
कपुरुषाः पद्मिनीसरसः खलु पद्मिनीपत्रैरुदकमादाय भगवतः समीपमागत्य भगवन्तं चालकृतविभूषितं दृष्ट्वा विस्मयोप्रफुल्लनयनाः किंकर्त्तव्यताव्याकुलीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोस्तदुदकं निक्षिप्तवन्तः, ततस्तानेवं
॥१९४॥
Jain Education
For Private & Personal use only
LONw.jainelibrary.org.