SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ छप्पुवसयसहस्सा पुर्वि जायस्स जिणवर्रिदस्स । तो भरहवंभिसुंदरि बाहुबली चैव जायाई ॥ १९२॥ जातस्य जिनवरेन्द्रस्य जन्मकालादारभ्य यावत्पट् पूर्वशतसहस्राणि - पूर्वलक्षाणि व्यतिक्रामन् तावदेतावत्यवसरे भगवतो भरतो ब्राह्मी सुन्दरी बाहुबलीति चत्वारि अपत्यानि जातानि तत्रायं सम्प्रदायः - अनुत्तरविमानादवतीर्य सुम| ङ्गलाया बाहुः पीठश्च भरतब्राह्मीति मिथुनकं जातं, तथा सुबाहुर्महापीठश्च सुनन्दाया बाहुबली सुन्दरीति मिथुनकमिति ॥ अमुमेवार्थ प्रतिपादयन्नाह मूलभाष्यकारः - देवी सुमंगलाए भरहो बंभी य मिहुणगं जायं । देवीऍ सुनंदाए बाहुबली सुंदरी चेव ॥ १ (मू. भा.) ॥ सुगमा, आह- किमेतावन्त्येव भगवतोऽपत्यानि उतान्यान्यपि १, उच्यते-अन्यान्यपि, तथा चाह Jain Education International अउणापन्नं जुयले पुत्ताण सुमंगला पुणो पसवे । नीतीण अइकमणे निवेयणं उसभसामिस्स ॥ १९३॥ एकोनपञ्चाशतं पुत्राणां युग्मानि सुमङ्गला पुनः प्रसूतवती, अत्रान्तरे प्राग्रनिरूपितानां हकारप्रभृतीनां दण्डनीतीनां लोकाः प्रचुरतरकषायसम्भवात् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकज्ञा| नादिगुणसमन्वितं भगवंतं विज्ञाय निवेदनं-कथनं ऋषभस्वामिने - आदितीर्थकराय, सूत्रे चतुर्थ्यर्थे षष्ठी प्राकृतत्वात्, | कृतवन्त इति क्रियाध्याहारः । निवेदिते सति भगवानाह - राया करेइ दंड सिट्टे ते येति अम्हवि स होउ । मग्गह य कुलगरं सो य बेइ उसभो य भे राया ॥ १९४ ॥ नीत्यतिक्रमणकारिणां राजा - सर्वनरेश्वरः करोति दण्डं, स च राजा अमात्यारक्षकादिवलयुक्तः कृताभिषेकोऽनति For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy