________________
उपोद्घात
नियुक्तिः
|णि
तत्कालभाविभ्यो मिथुनकमनुष्येभ्योऽभ्यधिकः ॥ अधुना विवाहद्वारमाह
जातिस्मरपढमो अकालमजू सहि तालफलेण दारको उ हतो। कन्ना य कुलगरेहि य सिहे गहिया उसभपत्ती ॥ १९०।। हविवाहा
भगवतो देशोनवर्षकाल एव किश्चिन्मिथुनक सञ्जातापत्यं सत् तदपत्यमिथुनकं तालवृक्षस्याधो बिमुच्य रिरंसया कद- पत्यद्वारालीगृहादिक्रीडागृहमगमत् , तस्माच्च तालवृक्षात् पवनप्रेरितं पक्वं तालफलमपप्तत्, तेन दारकोऽकाल एव जीविताद् व्यपरोपितः, एप प्रथमोऽवसर्पिण्यामकालमृत्युः, तदपि मिथुनकं तां दारिकां वर्द्धयित्वा प्रतनुकपायं मृत्वा सुरलोके समुत्पन्नं, सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तां त्रिदशवधूसमानरूपां मिथुनकनरा विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन् , निवेदिते च तैः कन्या नाभिकुलकरेण ऋषभपती भविष्यतीति सङ्गहीता, भगवांश्च तेन कन्याद्वयेन सार्द्ध विहरन् यौवनमनुप्राप्तः, अत्रान्तरे देवराजस्य चिन्ता समुदपादि-यथा कृत्य|मेतदतीतप्रत्युपन्नानागतानां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इत्येवं सञ्चिन्त्यानेकसुरवधूवृन्दसमन्वितोऽवतीर्णवान् , अवतीर्य च भगवतः स्वयमेव महता ऋद्धिसत्कारसमुदयेन वरकर्म-प्रम्रक्षणस्नानगीतवादित्रादि चकार, नन्दासुमङ्गलयोरपि शक्रमहिष्यो महता ऋद्धिसत्कारसमुदायेन विवाहकर्म कृतवत्यः॥ एतदेवाह
भोगसमत्थं नाउं वरकम्मं तस्स कासि देविंदो। दोण्हं वरमहिलाणं वहकम्म कासि देवीतो ॥१९१ ।। भोगसमर्थ भगवन्तं ज्ञात्वा तस्य-भगवतो वरकर्म देवेन्द्रोऽकार्षीत्, द्वयोवरमहिलयोः-नन्दासुमङ्गलयोर्वधूकर्म देव्यो-देवेन्द्रस्य अग्रमहिष्योऽकार्युः॥ इदानीमपत्यद्वारमाह
॥१९३०
For Private & Personal use only
Jain Education Interna
www.jainelibrary.org